SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३४ युक्त्यनुशासनं । श्च प्रतिक्षणं विनश्वरेषु स्वलक्षणेषु परमार्थतो मातृघातीत्यादिशास्तृशिष्यादि विधिव्यवस्थाव्यवहारोन संभवति। किं तर्हि? विकल्पबुद्धिरियमखिलानादिवासनासमुद्भता मातृय त्यादिव्यवस्थाहेतुर्वितथैव सर्वनिर्विषयत्वादिति यद्यभिमन्यतेसौगतास्तदातेषामतत्त्वतत्त्वादिविकल्ममोहे निमज्जतां का नाम वीतविकल्पधीरर्थवती तथ्या कथ्येत । मातृषात्यादिसकलमतत्वमेव ततोऽन्यत्तु तत्त्वं इति व्यवस्थितेरपि विकल्पवासनावलायातत्वात्संवतिरतचं परमार्थतस्तर मित्यपि विकल्पशिल्पिघटितमेव स्यात् । ननु वस्तुवलादिति विकल्पमोहो महाम्भोधिरिव दुष्पार: प्रसज्येत । "वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना। लोकसंवृतिसत्यं च परमार्थतः" इत्येतस्यापि विभागस्य विकल्पमात्रत्वात्तात्विकत्वानुपपनः । वीतसकलविकल्पा धीः स्वलक्षगमात्रविषया तात्त्विकीत्यपि न संभाव्यं तस्याश्चतुर्विधाया इन्द्रियमानसस्वसंवेदनयोगिप्रत्यक्षलक्षणायाः परमार्थतो व्यवस्थापयितुमशक्तेः । “प्रत्यक्ष कल्पनापोढमभ्रान्त" मिति प्रत्यक्षसामान्यलक्षणस्य प्रत्यक्षविशेषलक्षणस्य च विकल्पपात्रत्वादवास्तवत्वोपपतेः । न चावास्तवं लक्षणं वस्तुभूतं लक्ष्य लत्तयितुमलमतिप्रसंगादिति किं केन लक्ष्येत । अत्रापरे प्राहु:-न वहिः स्वलतणालंबनकल्पनाविकला काचिद् बुद्धिरस्ति सर्वस्या बुद्धरालंबने भ्रान्तत्वात् स्वप्नबुद्धिवत् स्वांशमात्ररूपपर्यवसितत्वाद्विज्ञानमात्रस्यैव तस्य प्रसिद्ध रिति । सोऽप्येवं प्रष्टः स्पष्टमाचष्टां--विज्ञानमात्रस्य सिद्धिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy