SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४ टीकासहितं । गोपपन्नेन न्यायेन क्त्वार्थश्च सत्यं च क्त्वार्थसत्यं "राजदंतादिषु परं" इति सत्यपदस्य परनिपातः, तदपि प्रतिक्षणं भंगिषु विषयविषयिषु नोपपद्येत । तथा न कुलं सूर्यवंशादिकं भवेत् क्षत्रियस्य, यत्र कुलेऽसौ जातस्तस्य निरन्वयविनाशात् तज्जन्मनि कुलाभावात् । तथा न जाति:क्षत्रियत्वादिः तद्व्यक्तिव्यतिरेकेण तदसंभवात् । अनेकव्यक्तरतव्यावृत्तिग्राहिणश्चित्तस्यैकस्यासंभवात् तदन्यापोहलक्षणायाश्च जातेरनुपपत्तेः। किञ्चन शास्तृशिष्यादिविधिव्यवस्था विकल्पबुद्धिर्वितथाखिला चेत् । अतत्त्वतत्त्वादिविकल्पमोहे निमजतां वीतविकल्पधीः का ॥१७॥ टीका-शास्ता सुगतः शिष्यस्तद्विनेयस्तयोविधिः स्वभावस्तस्य व्यवस्था विशेषेणान्यव्यवच्छेदेनावस्था सापि न स्यात्, प्रतिक्षणं भंगिषु चित्तेष्विति सम्बन्धनीयम्। तत्त्वदर्शनं परानुग्रहतत्त्वप्रतिपिपादयिषा तत्वप्रतिपादनकालव्यापिन: कस्यचिदेकस्य शासकस्यानुपपत्तेः। शिष्यस्य च शासनशुश्रूषाश्रवणग्रहणधारणाभ्यासनादिकालव्यापिनास्यचिदघटनात् । अयं शास्ताऽहं शिष्य इति मतिपतेः कस्यचिदयोगात् । तथादिशब्देन स्वामिभृत्यविधिव्यवस्था जनकतनयविधिव्यवस्था नप्तपितामहादिविधिव्यवस्था च न स्यादिति ग्राह्यं । ननु च वहिरन्त Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy