SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ કુર युक्त्यनुशासनं । तदेवं विभ्रान्तदृष्टिस्तव दृष्टितोऽन्या, तत्र वीरस्य स्याद्वादामृतसमुद्रस्य या दृष्टिबाधिता ततोऽन्या क्षणिकात्मवादिहष्टिर्विभ्रान्तदृष्टिरेव समंतदोषत्वादिति सुरेरभिप्रायः । तमेवाहु:प्रतिक्षणं भंगिषु तत्पृथक्त्वान्न मातृघाती स्वपतिः स्वजाया । दत्तग्रहो नाधिगतस्मृतिर्न न क्त्वार्थसत्यं न कुलं न जातिः ॥१६॥ - टीका - क्षणं क्षणं प्रति भगवत्सु पदार्थेषु प्रतिज्ञायमानेषु न मातृघाती कश्चित्पुत्रोत्पशिक्षण एव मातुः स्वयं नाशात्, तदनंतरे क्षणे पुत्रस्यापि मलयादपुत्रस्यैव प्रादुर्भावात् । लोकव्यबहारतो मातरं दूरतरं हन्तुं प्रवृत्तोऽपि न मातृघाती भवेदि त्यर्थः । तथा न स्वपतिः कुलयोषितोऽपि कथित्स्यात तद्वदुः पत्युर्विनाशादन्यस्योत्पादात् । तदृढाया योषितश्च विनाशात् तदन्यस्या एवोत्पादात्पारदारिकत्वप्रसंग इत्यर्थः । तथा स्वजायाऽपि न स्यात् । तत एव तथा दत्तग्रहो न स्यात् धनिना दत्तस्य धनस्याधमर्णात् ग्रहणं न स्यात् दातुर्निरन्त्रयनाश दधमर्णस्याप्यन्यस्य प्रादुर्भावात् साक्षिलिखितादेरपि परिध्वंसादित्यर्थः । तथाऽधिगतस्य शास्त्रार्थस्य स्मृतिरपि न स्यादिति शास्त्राभ्यासस्य वैफल्यमासज्येत । तथा न क्त्वार्थसत्यं पूर्वो तर क्रिययोरेककर्तृकयोः पूर्वकाले क्त्वार्थसत्येन परमार्थेन प्रमा | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy