SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । कथमेवमेकमनेकशक्त्यात्मकं प्रधानमनेकांत न साधयेत्, भोस्तृत्वाद्यनेकधर्मात्मकपुरुषतत्ववत् । भोक्तृत्वादीनामवास्तवत्वादेकमेव पुरुषतत्त्वमिति चेत्, न वास्तवावास्तत्वसिद्धेः, पुरुपस्यानेकत्वानिवृत्तः । तस्यावास्तवधर्मरूपेणासत्वान्नानेकरूपत्वमिति चेत्, न तथा सदसदात्मकतयाऽनेकांतसिद्धेः । ततो भगवतो जिनस्य मतमद्वितीयमेव नयप्रमाणप्रकृतांजसार्थत्वादखिलैः प्रवादैरधृष्यत्वाच्च व्यवस्थितमिति योगमतस्यैव स. दोषत्वसिद्धेरखिलार्थहानिर्व्यवतिष्ठते । इतश्च सकलार्थहानियाँगानामित्यभिधीयते-- भावेषु नित्येषु विकारहाने न कारकव्यापृतकार्ययुक्तिः। न बंधभोगौ न च तद्विमोक्षः, समंतदोषं मतमन्यदीयं ॥८॥ टीका-दिकालाकाशात्ममनःसु पृथिव्यादिपरमाणुद्रव्येषु परममहत्वादिषु गुणेषु सामान्यविशेषसमवायेषु च भावेषु नित्येष्वेवाभ्यनुज्ञायमानेषु विकारस्य विक्रियाख्यस्य हानिः प्रसज्येत । विकारहानेश्च न कारकव्याप्तं कर्नादिकास्कव्यापारस्य विक्रियापाये संभवाऽभावात् । क्रियाविष्टं द्रव्य कारकमिति प्रसिद्धः । कारकव्यापृताभावे च न कार्य द्रव्यगुगाकर्मलक्षणं प्रतिष्ठामियति । तदप्रतिष्ठायाञ्च न युक्तिरनुमानलक्षणानुबंधे साध्ये तस्याः कार्यलिंगत्वात्तदभावे चाय Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy