SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ टीकासहित। स्याद्वादिनांमते, ततः समवायस्य नानात्वप्रसिद्धौ च सामान्यस्य प्रतिव्यक्तिसमवायं कथंचित्तादात्म्यं प्रतिपद्यमानस्य नानात्वसिद्धिर्नानाव्यत्तितादाम्येन स्थितत्वात् व्यक्तिस्वरूपवदिति नैकस्वभावं सामान्यं सत्वं द्रव्यत्वादि वा परमपरं वा सिद्धं यत इदमुच्यते नानाव्यक्तिव्यापकैकस्वभावसामान्यवन्नानार्थग्राहकैकस्वभावं मेचकज्ञानमिति । नान स्वभावत्वे तु मेचकज्ञानस्यैकस्य तदेवाभेदभेदात्मकं वस्त्वेकानेकात्मक नित्यानित्यात्मकं साधयेत् सकलविरोधादिबाधकपरिहरणसमर्थत्वाद सौगतानां च वेद्यवेदकाकारसंवेदनं तत्त्वमेकमनेकात्मकं साधथत्येव । वेद्यवेदकाकारयोभ्रीतत्वे संवेदनस्य चाभ्रान्तत्वे भ्रान्तेतराकारमेकं संवेदनं, भ्रान्ताकारस्य चासत्वे संविदाकारस्याभ्रान्तस्य सत्वे सदसदात्मक मेकं, विषयाकारविवेकितया परोक्षत्वे संविद्रपतया प्रत्यक्षत्वे परोक्षप्रत्यक्षाकारमेकं विज्ञानं कथं निराकुर्युः यतोऽनेकान्तसिद्धिर्न भवेत् । कपिलानां तु तत्त्वमेकं प्रधानं सत्वरजस्तमोरूपं सर्वथैकान्तकल्पनां शिथिलयत्येव । तस्यैवानेकान्तात्मकवस्तुसाधनत्वात् । सत्त्वादीन मेव साम्यमापन्नानां विनिहत्तप्रसवप्रवृत्तीनां प्रधानव्यपदेशात् । तव्यतिरिक्तप्रधानाभावानैकमनेकान्तात्मक मिति चेत् नैकप्रधानाभ्युपगमविरोधात् प्रधानत्रयसिद्धः। सर्वसंहारकाले प्रधानमेकमेवाद्वयं न सत्त्वादयस्तेषां तत्रैव लीनत्वादिति चेत्, कथमेकस्मादनेकाकारं महत् प्रजायेतातिप्रसंगात् । सुखदुःखमोहशक्तित्रयात्मकत्वात्प्रधानस्य न दोष इति चेत्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy