________________
युक्त्यनुशासमं । यभेदात् समवायोऽपि । नानावस्तुसमवायिनोरनित्यत्वात्स चेत तर्हि संयोगिनोः शिथिलत्वात्संयोगः शिथिल इत्युपचर्यतां परमार्थतस्तस्य निविडरूपत्वात् । नानासंयोगो युतसिद्धद्रव्याश्रयत्वाद्विभागवदिति चेत् न, द्रव्यत्वेन परस्परव्यभिचारात् तथा समवायो नाना स्यादयुतसिद्धावयवावयविद्रव्याश्रयत्वाद् द्वित्वसंख्यावदित्यपि शक्यं वक्तुं । समवायस्यानाश्रयत्वादसिद्धोत्र हेतुरिति चेत्, न षण्णामाश्रितत्वमन्यत्र नित्यद्रव्येभ्य इति वचनविरोधात् । समवायस्योपचारादाश्रितत्वसिद्धेस्तथा वचनं न विरुध्यते समवायिनोः सतोरेवेहेदमिति प्रत्ययोत्पादस्योपचारकारणस्य सद्भावादिति चेत्, कथमेवमवयवावयविद्रव्याश्रयत्वात् इति हेतुरसिद्धः स्यात् तस्योपचारानुपचारानपेक्षयाश्रितत्वात्, सामान्यरूपत्वेनाभिधानात् । परमार्थतोऽनाश्रितत्वेऽपि एतदभिधीयते-नानासमवायो नाधितत्वात् परमाणुवदिति । नन्वेवं वदन् समवायं धर्मिणं प्रपयते चेत्, कालात्ययापदिष्टो हेतुश्च धर्मिग्राहकप्रमाणबाधितत्वात् । न प्रतिपद्यते चेदाश्रयासिद्धो हेतुरित्यपि न दूषणं समवायस्याविष्वग्भासंबंधस्य कदाचित्तादात्म्यलक्षणस्यैकत्वानेकत्वाभ्यां विवादापन्नस्य प्रतिपत्तेर्धर्मियाहकप्रमाणान्तरैकत्वासिद्धेस्तेन बाधाऽनु पत्त: कालात्ययापदिष्टवायोगात् । तदेकत्वसाधनस्य च प्रमाणस्यासंभवात् स्वप्रत्यया विशेषस्यासि. द्धत्वात् । कालादिभिर्व्यभिचार इति चेत्, न तेषामपि कथंचिन्नानात्वसिद्धेः कालस्य संख्येयद्रव्यत्वात्खस्यानंतप्रदेशत्वात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org