SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ टोकासहित। शात् । ननु च समानपरिणामेषु समानप्रत्ययात् समानपरिणामान्तरमसंगादनवस्थानं बाधकमत्रास्त्येवेति चेत्, न समानपरिणामानां व्यक्तिम्वेव स्वेष्वपि समानप्रत्ययहेतुत्वादनवस्थानुपपत्तेः स्वयं व्यक्तयस्तथा समानपत्स्यहेतवः सन्तु किं समानपरिणामकल्पनयेत्यायनालोच्याभिधानं कळदिव्यक्तीनामपि गोप्रत्ययहेतुत्वप्रसंगात् । गोरूपेण समानेन परिणता एव खंडादिव्यक्तयो गोप्रत्ययहेतव इति चेत्. सिद्धः समान गरिणामोऽनेक: प्रतिव्यक्तिभेदप्रतीतेः । नहि गोत्वं सामान्यमेकं तत्समवायात् खंडादिषु गोप्रत्यय इति व्यवस्थापयितुं शक्यं कर्कादिव्यक्तिष्वपि तत्समवायात् गोप्रत्ययत्वप्रसंगात् । न च सर्वव्यक्तिभ्यः सामान्यस्य समवायस्य च सर्वथा भेदेऽपि खंडादिव्यक्तिष्वेव गोत्वं समवैति न पुनः कर्कादिष्विति युक्तमुत्पश्यापः । इह खंडादिषु गोत्वमिति सत्प्रत्ययाविशेषाखंडादिष्वेव गोत्वस्य सपवाय इति चेत्, तर्हि नानासमवायः सिद्धः प्रतिसपवायिप्रत्ययभेद त् समवायिन एव नानासमवायस्तत्वंभावेन व्याख्यामिति वचनात् । सत्तारत्तदेकत्वसिद्धेरिति चेत्, नैकस्य निरंशस्य देशकालभिन्नसायिषु सर्वथेहेदमिति प्रत्ययहेतुत्वविरोधात् संयोगस्याप्येकस्थानंशस्य संयोगिषु संयुक्तप्रत्ययहेतुत्वप्रसंग त् तथा चैक एव समवायवत् संयोगः स्यादिति योगमतमतिवर्त्तते । यदि पुनर्नाना संयोगः शिथिलः संयोगो निविडः संयोग इति विशेषप्रत्ययान्मन्यध्वं तदा नित्यः समवायो नश्वरः समवाय इति प्रत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy