SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । नेष्यते । स्वसमयविरोधाच्छक्तिद्वयस्य ततो भेदो नैकोऽनेकात्मक इति चेत् न, तस्य निःशक्तिकत्वप्रसंगात् । तस्य शक्तिभ्यां संबंधान निःशक्तिकत्वमिति चेत्तर्हि तस्य शक्तिभ्यां संबन्ध स्वीकुर्वतः कथमनेकात्मकं न स्यात् । तत्संबंधयोरपि ततो भेदे तदेव निःशक्तिकत्वं ताभ्यामपि संबंधाभ्यामन्ययो । संबंधयोः परिकल्पनायामनवस्था स्यात् । तदसत्, तत्संबंधात्मकत्वोपगमे शक्तिद्वयात्मकत्वमेवास्तु शक्तिशक्तिमतोः कथचित्तादात्म्यात्, तथा च सामान्यविशेष एवैकोऽनेकान्तात्मके वस्तुनि विरोधं निरुणद्धीति किं नचिन्तया, तद्वद्वैयधिकरण्यादिदूषणकदंबकमपि ततो दूरतरं समुत्सारयतीति कृतं प्रयासेन; स्वयं मेचकज्ञानं चैकानेकं प्रतिभासं स्वीकुर्वत् कथमनेकान्तं निरसितुमुत्सहते सचेतनः । मेचकज्ञानमेवेत्ययुक्तं तस्य नानास्वभावत्वाभावेऽनेकार्थग्राहित्वविरोधात् नानार्थग्रहणस्वभावोऽप्येकएव तस्येष्यते सत्वादिसामान्यस्य नानाव्यक्तिव्यापकैकस्वभाववदिति चेत्, न तथा परं प्रति साध्यत्वात् सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेकं सत्त्वसामान्यमेकस्वभावं सिद्धं तद्वत् द्रव्यादिसामान्यं द्रव्यत्वादिप्रत्ययाविशेषाद्विशेषलिंगाभात्राच्चेति चेत्, न सच्चद्रव्यादिप्रत्ययस्य प्रतिव्यक्ति विशेषसिद्धेः सच्चद्रव्यत्वादिसामान्यस्यानेकत्वव्यवस्थितेः । इदं च सदिदं च सदिति समाने इमे सती तथा समाने द्रव्ये गुणौ कर्मणी चेति समानप्रत्ययात् समानपरिणामस्य प्रतिव्यक्ति व्यक्त्यंतरापेक्षया प्रभिद्यमानस्य निर्वाधबोधाधिरूढत्वात् । तत्र वृतिविकल्पानवस्थादिबाधकस्यानवका २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy