SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दोकासहित। नात् । बंधाभावे च भोगः फलं न भवति ! नाऽपि तद्विमो. क्षस्तस्य बंधपूर्वकत्वादिति सकलार्थहानिः स्यात् । भावानामभावे प्रागभावादीनामप्यसंभवात्तेषां भावविशेषणत्वात्स्वतंत्राणामनुपपत्तेः । एतेन मीमांसकानां शब्दात्मादिषु भावेषु नित्येषु प्रतिज्ञायमानेषु विकारहानेः कारकव्यापृतकार्ययुक्तिः अत्याख्याता, तनिवन्धनौ च बंधभोगौ, तद्विमोक्षश्चानंदात्मकब्रह्मपदावाप्तिरूपः प्रतिक्षिप्तः । कथंचिदभेदभेदात्मकत्वे तु भावानामभ्युपगम्यमाने स्याद्वादाश्रयणं नित्यत्वैकांतविरोधमातीतिकमवश्यं भावि दुर्निवारं इति समंतदोषमन्यदीयमन्येषां वैशेषिकनैयायिकानां मीमांसकानाञ्चेदमन्यदीयमिति प्रतिपत्तव्यम् । अथवा कापिलानां मतमन्यदीयं समन्तदोषमिति व्याख्यायते समन्तात् देशकालपुरुषविशेषापेक्षयाऽपि सर्वतः प्रत्यक्षानुमेयागमगम्येषु सर्वेषु स्थानेषु सर्वत इति ग्राह्यं समन्तात् दोषो बाधक प्रमाणं यस्मिस्तत्समन्तदोष, तच्चान्यदीयं मतं न त्वदीयमिति भावः । कथं तत्समन्तदोषमित्युच्यते । यस्माद्भावेषु नित्येषु निरतिशयेषु पुरुषेषु सांख्यैरभिमतेषु निर्विकारस्य पुरुषार्थप्रधानप्रवृत्तिविक्रियालक्षणस्य हानिः प्रसज्यते । स हि प्रधानस्य विकारो महदादिः पुरुषार्थों भवतु, पुरुषस्य कंचिदुपकारं करोति वा न वा ? यदि करोति तदा पुरुषादनान्तरमर्थान्तरं वा । ततोऽनन्तरं चेत् , तमेव करोतीति कार्यत्वप्रसंगात सो नित्यत्वविरोधः । ततोऽर्थान्तर चेन्न तस्य किंचित्कृतं स्यादिति कथं पुरुषार्थः प्रकृतेर्विकारः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy