SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ युक्तयनुशासनं । तहविद्योदयवंशप्रभवो नीलादिविकल्प इत्येतदायातम् । तथा च तज्जननान दर्शनं तत्त्वज्ञान युक्तमतिप्रसंगात् । तदविसंवादकत्वात् तत्त्वज्ञानमिति चेत, तदपि यद्यर्थक्रियाप्राप्तिनिमित्तत्वं तच्च प्रवर्तकत्वं तदपि प्रवृत्तिविषयो. पदर्शकत्वमुच्यते तदा न व्यवतिष्ठते दर्शनस्याव्यवसायात्मनः प्रवृत्तिविषयोपदर्शकत्वे क्षणक्षयाद्युपदर्शकत्वप्रसंगात नीलाद्युपदर्शकत्ववत् , नीलादिवत् क्षणक्षयादावपि दर्शनविषयत्वाविशेषात् । क्षणक्षयादौ विपरीतसमारोपान तदुपदशकत्वमिति चेत्, सोऽपि कुतः सदृशापरापरोत्पत्तिदर्शनादविद्योदयाचेति चेत्, न सदृशापरापरोत्पत्तिदर्शनस्य समारोपनिमित्तस्यापरापरजलबुद्बुदोत्पत्तिदर्शनेन व्यभिचारात् तत्रैकत्वसमारोपासंभवात् तथान्तरंगस्य चाविद्योदयस्य वाह्यकारगारहितस्यासमर्थत्वात् तन्मात्रादेवान्यथा सर्वत्र विभ्रमप्रसंगात् । स्यान्मां, अपगपरजलबुबुदेषु सहशारापगेन्पत्तिदर्शने सत्यप्यविद्योदयासंभवान्कत्वसमारोपः ततो न व्यभिचार इति । तदयुक्तम् , क्षणक्षयादिदर्शनस्याबोधिसत्वादप्रसिद्धः, पश्यन्नयं क्षणिकमेव न पश्यतीति वचनस्य वमनोग्थमात्रत्वात्, शक्यं हि वस्तुं पश्यन्नयं नित्यमेव पश्यत्यनाद्यविद्योदयादपरापरज्ञानोत्पत्तिषु क्षणिकरवसशरोपानावधारयतीति । क्रमयोगपद्याभ्यामर्थक्रियाविरोधस्तु नित्यस्येव णिकस्यापि विद्यत एव ततः पश्यन्नय जात्यन्तरमेव पश्यति दर्शनमोहोदयात्तु दुरागमजनितवासनासहायाद्विपरीतसमारोपसंभवान्नावधारयतीति युक्तमुत्पश्यामः । तथा चाक्षादिज्ञानस्य द्रव्यप Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy