________________
टीकासहितं ।
तस्या विकल्पवासनाहेतुत्वविरोधात्, वास्तवं हि किंचित् कस्यचित् कारणमिष्टं नावास्तवं शशविषाणं, न चाविया वास्तविका । यदि पुनर्यथा वास्तवं कारणं वास्तवमेव कार्यमुपजनयति तद्वद्वास्तवमवास्तवं विरोधाभावात् ततश्चाविद्यो - दयः स्वयमवास्तवो विकल्पवासनामबोधमवास्तवं करिष्यतीत्यभिधीयते, तदा विकल्पवासनाप्रबोधोऽप्यवास्तवो नीलादिव्यवसायमवास्तवमेव जनयेत् | वास्तवदर्शन हेतुत्वात् वास्तवोsपि नीलादिविकल्प इति चेत् तर्हि वास्तवावास्तवाभ्यां दर्शन विकल्पवासनाप्रबोधाभ्यां जनितो नीलादिविकल्पो वास्तवावास्तवः स्यात्, तथा च तज्जनकं दर्शनं कथमिव तत्वज्ञानमुपपद्येत संशयादिविकल्पजनकस्यापि दर्शनस्य तत्रज्ञानस्वमसंगात् । यथैव हि नीलादिविकल्पः स्वरूपे वास्तव: स्वालंबने चावास्तवस्तथा संशयादिविकल्पोऽपि, सर्वचित्तचैतानामात्मसंवेदनस्य वास्तवत्वात् तदालंबनस्य चाऽन्यापोहस्यावास्तवत्वात् वास्तवावास्तवोपपत्तिः । ननु दर्शनपृष्टभाविनो विकल्पस्य वस्तुव्यवसायकत्वात् तज्जनकं दर्शनं तत्त्वज्ञानं न पुनः संशयादिविकल्पजनकं तस्थावस्तुपरामर्शित्वात् । नहि संशयेन विपयीक्रियमाणं चलिताकारद्वयं वस्तुरूपं, नाऽपि विपर्यासेनालंब्यमानं विपरीतं वस्तुरूपं यतोऽस्य वस्तुपरामशिता स्यादिति कश्चित् । सोऽप्येवं प्रष्टव्यः कुतो नीलादिविकल्पस्य वस्तुव्यवसायित्वं सिद्धं ? वस्तुव्यवसायिविकल्पवासनाप्रबोधात् सोऽपि वस्तुव्यवसाय्यविद्योदयादिति चेत्
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org