________________
युक्तयनुशासनं ।
संबंधः । कुतः स्तुतिगोचरत्वं नेतुमिच्छवो भवन्त इत्याहु:ऋद्धमानमिति वृद्धप्रमाणत्वादित्यर्थः, ऋद्धं प्रवृद्धं मानं प्रमाणं यस्य स एव वर्द्धमान इत्युच्यते ।
किं पुनस्तत्र प्रमाणं प्रवृद्धमिति चेत्, तत्रज्ञानमेव, तत्रज्ञानं प्रमाणं स्यादिति वचनात् तस्यैव प्रवृद्धत्वोपपत्तेः स्याद्वादनयसंस्कृतत्वात् । सन्निकर्षादेरुपचारादन्यंत्र प्रमाणत्वायोगा निर्विकल्पक दर्शनवत् प्रवृद्धत्वासंभवात् । तत्त्वज्ञानं पुनः स्वार्थ व्यवसायात्मकं तत्रज्ञानत्वान्यथानुपपत्तेः । न ह्यव्यवसायात्मकं तत्वज्ञानं नामाकिचित्करस्य तत्त्वज्ञानत्वप्रसंगात् । नाकिचित्करं तत्वज्ञानं व्यवसायकरस्य तत्त्वज्ञानत्वादिति चेत्, न स्वयमव्यवसायात्मनो दर्शनस्य व्यवसायकरत्वविरोवात् सुगतदर्शनवत् । क्षणक्षयादिदर्शनबुद्धव्यवसाय वासनाप्रबोधसहकारि दर्शनं व्यवसायकारणं नापरमिति चेत्, कुतो व्यवसायवासनामबोधः १ दर्शनादिति चेत्, तर्हि क्षणक्षयादावपि स्यात्कथं च सुगतदर्शनं न स्यात् ? तत्राविद्योदयसत्त्वादिति चेत्, तर्हि अविद्योदय सहायादर्शनात् स च भवतु क्षक्षयादौ, नास्तीति मतं तदा दर्शनभेदप्रसंगः, न ह्येकमेव दर्शनं नीलादौ व्यवसायवासनाप्रबोधनिबंधनाविद्योदयसमाक्रान्तं क्षणक्षयादावन्यथेति वक्तुं युक्तम् । स्यान्मतं, दर्शनस्याविद्योदय वैचित्र्याद्वैचित्र्यं ततस्तस्यान्यत्वात्सदन्यत्वे दर्शनस्य वास्तवत्वाविरोधाद्, वास्तवं हि दर्शनमवास्तवा वाऽविथा, तदुभयमेदान दर्शनमेद इति । तदपि स्वसिद्धान्तमात्रं,
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org