SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं। संयोगानाश्रयत्वात्, संयोगस्य द्रव्यनिष्ठत्वात् । नाऽपि समवायो वृशिस्तस्यायुतसिद्धिविषयत्वात्, न च सामान्यतद्वतोरयुतसिद्धिः संभवति । सा हि शास्त्रीया वा स्याल्लौकिकी वा ? न तावत् शास्त्रीया तयोः पृथगाश्रयाश्रयित्वेन युतसिद्धेरेव संभवात्, पृथगाश्रयायित्वं युतसिद्धिरिति वचनात् । यथैव हि कुंडे परमाणुरित्यत्र परमाणोः पृथग्भूतेषु कुंडावयवेषु स्वाश्रयेषु कुंडस्याश्रयित्वं पृथगायित्वं तथा सामान्यात्पृथग्भूतेषु स्वाश्रयेषु द्रव्यादेरायित्वं पृथगाश्रयित्वं युतसिद्धिलक्षणं विद्यत एव । यदि पुन: कुंडस्य स्वाश्रयेषु स्वावयवेषु बदरस्य च स्वावयवेष्वाश्रयेष्वाश्रयित्वमिति कुंडवदरयोः पृथगाश्रयायित्वं पृथगाश्रययोराश्रयणी पृथगाश्रयणी तयोर्भावः पृथगाश्रयायित्वं चतुराश्रयमेवाभिधीयते तदा कथमिह कुंडे परम णुरिति परमाणुकुंडयोयुत सिद्धिः स्यात्तल्लक्षणाभावात् । अथ मतमेतत्, न परमाणोः कुंडे वृत्तिस्तस्य निरवयवत्वादाकाशादिवत् । तदप्यसारं, भवदभ्युपगतस्य सामान्यस्य निरवयविनो गुणादेश्व कचित्यभावप्रसंगानिरंशत्वाविशेषात, परमाणुकुंडयोयुनसि यभावे चायुतसिद्धिप्रसंगात्संयोगविरोधात्समवायप्रसंगो दुनिवार इति तयोः संयोगमिच्छता पृथगाश्रयायित्वं युतसिद्धिलक्षणं व्याश्रयमपि प्रतिपत्तव्यं । नित्यानां च पृथग्गतिमत्वमिति लक्षणांतरस्यासंभवादात्माकाशादीनामयुतसिद्धिप्रसंगात्तद्वत्सामान्यतद्वतोरपि तत्सिद्धमिति न शास्त्रीयाऽयुतसिद्धिः । नाऽपि लौकिकी देशकालाभेदलक्षणा दुग्धांभसोर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy