________________
१३६
टोकासहित। प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनंततां व्रजेत् ॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥" इति ।।
द्रव्यगुणकर्माणि सामान्यवंति मुख्यसतर्गत्वात्, ये तु न सामान्यवंतस्ते न मुख्यसदर्गा यथा सामान्यविशेषस. मवाया इति केवलव्यतिरेकिणानुपानेन प्रतिपक्षण सत्मतिपक्षत्वात् सामान्यवस्वाभावसाधनस्य तत्त्वात्मकत्वादित्येतस्य हेतार्न गमकत्वमिति चेत्, नाऽध्य प्रतिपक्षानुमानस्य प्रत्यक्षबाधितविषयतया कालात्ययापदिष्टत्वात् । नहि प्रत्यत्तबुद्धौ द्रव्यादिषु सामान्यमेकं पदार्थान्तरं प्रतिभासते समानानि द्रव्याणीमानि गुणा वा कर्माणि वेति प्रतिभासनात्सदृशपरिणामस्यैव प्रतीतेस्तदयमनुत्तिप्रत्ययस्तदेवेदमित्याकारोऽसिद्ध एवेति । न सामान्ये लिंगं यतः सामान्यमनुमानतो मेयं स्यात् । तत एव नागमता भेयं युक्त्यननुगृहीतस्यागमस्याप्रमाणत्वादन्यथाऽतिप्रसंगात् । न चोपमानतो मेयं सामान्यसदृशस्य कस्यचिद्वस्तुनोऽसंभवादिति न सामान्य तद्वतो भिन्नमनियतदेशकालाकारं प्रमेयमवतिष्ठते । तथा भे. देप्यभ्युपगम्यमाने सामान्यस्य स्वाश्रयेभ्यो न तलमेयं तहत्यपत्तिभावात् । तेषु द्रव्यादिषु वृत्तिस्तवृत्तिस्तस्या अपत्तिावृत्तिस्तस्या भावः सद्भावस्तस्मात् तद्वृत्त्यपत्तिभावान्न सामान्यं प्रमेयं भेदेऽपीत्यर्थः । सामान्यस्य स्वाश्रयेषु वृत्तिन तावत्संयोगः कुंडे बदरवत्संभवति तस्याद्रव्यत्वात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org