SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३६ युक्त्यनुशासनं । त्वमेव मनसः सर्वत्र सर्वदोत्पद्यते यतो रागद्वेषाभावाद्वधाभावः प्रसज्येत १ कथंचित् कचित् किंचित् कदाचित् गुणस्थानापेक्षया पुण्यबंधस्योपपत्तेस्ततस्तौ बंत्रमोक्षौ स्वमतादनंतात्मकतविषयादवाह्य तत्रैव भावात् तयोर्क्षवृत्तेः । जानातीति ज्ञ भात्मा । ज्ञे वृत्तिईटत्तिस्तत इति प्रधाने नैकात्मन्यपि न तौ तस्याज्ञत्वादिति निवेदितं भवति । स्यान्मतं, नैकस्य नानात्मनोऽर्थस्य प्रतिपादकाः शब्दाः पटुसिंहनादाः सिद्धाः सौगतानामन्यापोहसामान्यस्य वागास्पदत्वाद्वाचां वस्तुविषयत्यासंभवादिति । तदसदेव यस्मात् - आत्मान्तराभावसमानता न वागास्पदं स्वाश्रयभेदहीना । भावस्य सामान्यविशेषवत्त्वादैक्येतयोरन्यतरान्नरात्म ॥५४॥ टीका- गो: स्वभावादन्यः स्वभावः स्वभावान्तरमात्मान्तरमात्मा ? तस्याभावो व्यावृत्तिः स एव समानता सामान्यं, सा वाचामास्पदं न भवत्येव, कीदृशी सा न वागास्पदं, स्वाश्रयभेदहीना स्वस्था आत्मान्तराभावसमानताया आश्रयाः स्वाश्रयाः । स्वाश्रवास्ते च भेदाच, तैहींना अन्यापोहसामान्यविशेषवा शून्येति यावत् । कुतः सा न तादृशी वागास्पदमिति साध्यते ? भावस्य वस्तुनः सामान्यविशेषवद्यात् । ननु च समान्यविशेषवत्त्वेऽपि भावस्य सामान्यस्यैव वागास्पदत्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy