SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ टोकासहित। १३५ एकस्य नानात्मतयाज्ञवृत्ते. स्तौ बंधमोक्षौ स्वमतादवाह्यौ॥५३॥ टीका-प्रतिपक्षं प्रतिद्वंद्विनं दूषयति निराकरोत्येवंशील: प्रतिपक्षदृषी प्रतिद्वन्द्विनिराकारी नित्यत्वैकान्तबादी क्षणिका. येकान्तवादी च । स प्रमुच्यते च प्रमुच्यत एवानेकांतवादिनान पुनस्तत्र द्वेषः क्रियते सामरिमतिपक्षस्वीकारी वाऽनेकांतवादी स्वीकृत एव न पुनस्तत्र रागः क्रियत इति चशब्दस्यैवकारार्थत्वाद् व्याख्यायते । कैः पुनर्हेतुभूतैरित्युच्यते-जिन ! त्वदीयैः पसिंहनादैः । कि रूपतयेत्यभिधीयते--एकरूप नानात्मतयेति स्यादेकमेव वस्तु स्थानानात्मेत्यादयः शब्दाः सिंहनादाः । सिंहनादा इव सिंहनादा इति समाधिः शब्दान्तरैर्यकर्तुपशक्यत्वात् । यथैव हि सिंहनादा कुंजरादिनादैन तिरस्कर्तु शक्यन्ते तथा जिननाथस्य नादाः सम्यगने कान्तप्रतिपादकाः क्षणिकायेकान्तप्रतिपादकैः सुगतादिशब्दैन कथंचिभिराक्रियन्ते इत्युक्तं भवति । पटवश्यैते निःसंशयत्वात् सिंहनादाबाबाध्यत्वात् पटुसिंहनादास्तैरेव हेतुभूतः प्रतिपक्षदूषी प्रमुच्यते व्यवच्छिद्यते युक्तिशास्त्राविरोधिभिः परमागमवाक्यैर्नानात्मकैकवस्तुनिश्चय स्यैव सर्वथैकान्तप्रायोचनस्य सिद्धेस्तन द्वेषासंभवादनेकान्तरागासंभत्रवत् । न हि तवनिश्चर एव रागः क्षीणमोहस्यापि रागप्रसंगात , नाप्यतत्वव्यवछेद एवं द्वेषः शक्यः प्रतिपादयितुं यतोऽनेकांतवादिनः समं मनोन भवेत, तन्निमित्तश्च मोक्षः कथं न स्यात् ? न च सर्वथा सम्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy