________________
युक्त्यनुशासन । हेरपि संयतत्वप्रसंगो मनसः समत्वस्यैव संयमरूपत्वादिति वेत् , क एवमाह सर्वथा संयमस्याभावोऽसंयतसम्यग्दृष्टेरिति तस्यानंतानुबंधिपायात्मनोऽसंयमस्याभावात् संयतत्वसिद्धेः। कथमस्यासंयतत्त्वमिति चेत्, मोहद्वादशकात्मनोऽसंयमस्य सनावाचत एवानंतानुबंध्यमत्याख्यानकषायात्मनोऽसंयमस्यामावात् प्रत्याख्यानसंज्वलनकषायात्मनोऽसंयमस्य सद्भावात्संयतासंयतसम्यग्दृष्टिः समभिधीयते । नन्वेवं प्रमत्तसंयतादि सूक्ष्यसाम्परायान्तः संयतासंयतः प्रसज्येत संज्वलनकषायास्मनो नोकपायात्मनश्चासंयमस्य सद्भावादिति चेत् , न, संज्वलनकषायादेरसंयमत्वेनाविवक्षितत्वादुदकराजिसमानत्वेन मोहद्वादशकाभावरूपसंयमाविरोधित्वात्परमसंयमानुकूलत्वाचेति कषायमाभृतादवबोद्धव्यम् । यथा चासंयतसम्यग्दृष्टेः स्वानुरूपमनःसाम्यापेक्षया समं मनः सिद्धं तथा संयतासंयतस्य च नवविधस्येति न किंचिदसंभाव्यं ततोऽनेकान्तयुक्त्यनुशासनं न रागादिनिमित्तं तस्य मनःसमत्वनिमित्तत्वात् ।
नन्वनेकान्तवादिनोऽप्यनेकान्ते रागात् सर्वथैकान्ते च देषात् कथमिव समं मनः स्यात् यतो मोक्ष उपपद्यते ? सर्वदा मनःसमत्वे वा न बंध इति स्वमताद्वाह्यौ बंधमोक्षौ स्याता मनसः समत्वे चासमत्वे च तदनुपपत्तेरिति वदन्तं प्रत्याहुः-- प्रमुच्यते च प्रतिपक्षदूषी
जिन! त्वदीयैः पटुसिंहनादैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org