________________
टीकासहित कान्तस्य प्रतिपक्षापेक्षस्य व्यवस्थापनाचैकान्ताभिनिवेशस्व मिथ्यादर्शनत्वप्रसिद्धेरिति निर्णीतमाय । ततः सम्यग्दृष्टरेकांतहाने तद्विरोधिनोऽनेकांतस्य निश्चयात्तस्यैवैकांतहानाब स एकांतधर्माभिनिवेशो यत्तदेव स्यात् यत्किचिस्यान स्यादित्यर्थः । सति होकांतधर्मे कस्यचित्तदभिनिवेशः संभाव्यते तस्य तद्विषयत्वात्, तदभावे तु यद्वास्तवं रूपमात्मनो पथार्थदर्शनं तदेव स्यादेकांताभिनिवेशाभावस्य सम्यग्दर्शनभावरूपत्वात् , तस्यैव स्वाभाविकत्वं सिद्धयेदात्मना स्वाभा. विकत्वाच्च समं मनस्ते तव भगवतोऽहतो युक्त्यनुशासने सदृष्टेभवतीति वाक्यार्थः। दर्शनमोहोदयमूले हि चारित्रमोहोदये जायमाना रागादयो जनानामस्वाभाविका एव तेपामौदयिकत्वात, दृङ्मोहहानाच चारित्रमोहोदयहाने रागादीनामभवात् सम्यग्दर्शनशानचारित्रपरिणामानां स्वाभाविकत्वं । तत्सम्यग्दर्शनस्यौपशमिकत्वं क्षायोपशमिकत्वं क्षायिकत्वं वा स्वाभाविकत्वमात्मरूपत्वात् । सम्यग्ज्ञानस्य । सायोपशमिकत्वं क्षायिकत्वं वा । सच्चारित्रस्य तु सदर्शनवदौपशमिकत्वादित्रयं स्वाभाविकत्वं न पुनः पारिणामिकत्वं नस्य कर्मोपशमादिनिरपेक्षत्वात् । कथमसंयतसम्यग्दृष्टः सर्व मनः स्यादसंयमस्य रागद्वेषात्मनः सद्भावादिति चेत् , कधिदेकांते रागाभावात्परत्र द्वेषाभावाच्च विवक्षिताविवक्षितयोरेकान्तयोरुदासीनत्वसिद्धरविवक्षितस्याप्यनिराकरणात् तन्मात्रस्य मनःसमस्य सद्भावादिति ब्रमः । नन्वेवमसंयतसम्यगर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org