________________
१३९
युक्त्यनुशासन। दर्शनसद्भाव एव भावात् मिथ्यादर्शनमूलत्वसिद्धः। परेषा पुनरसंयतसम्यग्दृष्टयादिषु लोभादीनामसंयमप्रमादकषायपरिणाममूलत्वेऽपि मिथ्याशि मिथ्यादर्शनसद्भाव एव भावामिथ्यादर्शनमूलत्वसिद्धिः । यद्येवमुदासीनावस्थायामपि मिध्यादर्शनानामेकांतवादिनां रागादयो जायेरनितिन शंकनीयमहंकृतिजा इति वचनात् । अहंकृतिरहंकारोऽहमस्य स्वामीति जीवपरिणामा सामर्थ्यादिदं मम भोग्यमित्यात्मपरिणामो ममकार प्रतिपादितो भवति, अहंकृतेर्जाता अहंकतिजा मभकाराहकारजा इत्यर्थः । तेन मिध्यादर्शनपरिणाम एव यदा ममकारोऽहंकारसचिवो भवति तदैव रागा. दीनुपजनयति न पुनरुदासीनदशायामित्येकान्ताभिनिवे. शमहामोहराजजनिता एव रागादयः।
तथा चोक्तम्ममकाराहंकारौ सचिवाविव मोहनीयराजस्य ।
रागादिसकलपरिकरपरिपोषणतत्परौ सततम् ॥ इति ॥ ननु च भवंतु नाम रागादयोऽहंकारजन्मानोजनानांमोहवतां वीतमोहानां तु सत्यप्यहंकारे रागाद्यभावात् कथं ते तज्जा: स्युरिति न चोधे,मिथ्यादर्शनादिसहकारिण एवाहंकारस्य रागा. दिजनने सामचिद्विकलस्यासामर्थ्यात् । न चावश्यं कारणानिकार्य जनयंति मुर्मुरांगांगारावस्थाग्निवत् । ननु चैकान्ताभिनि बेशो मिध्यादर्शनमिति कुतो निश्चीयत इति चेत्, अनेकांनात्मकस्यैव वस्तुनः प्रमाणतो निश्चयात्, सन्नयाच सम्यगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org