SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १९ टोकासहितं। . . समाधिहेतुकं निर्वाणं कस्यचिन्न स्थाचतो मोक्षकारणं मनः समत्वं समाधिलक्षणमिच्छता नानेकांतात्मकत्वं जीवादिवस्तुनोऽभ्युपगन्तव्यमिति । तदपि न समीचीनमित्याहु: एकान्तधर्माभिनिवेशमूला - रागादयोऽहंकृतिजा जनानाम् । एकान्तहानाच स यत्तदेव स्वाभाविकत्वाच समं मनस्ते॥५२॥ टीका-एकान्तो नियमोऽवधारणं, धर्मो नित्यत्वादिस्वभावा, एकान्तेन निश्चितो धर्म एकान्तधर्म इति मध्यमपद. लोपी समासः। 'तृतीयान्तात् क्त उत्तरपदे' इत्युपसंख्यानात् "गुडेन संस्कृता धाना गुडधानाः" इत्यादिवत् । एकान्तधर्मेऽ. भिनिवेश एकान्तधर्माभिनिवेशः, नित्यमेव सर्वथा न कथं चिदनित्यमित्यादि मिथ्यात्वश्रद्धानं मिथ्यादर्शन मिति यावत् । एकांतधर्माभिनिवेशो मूलं कारणं येषां ते एकान्तधर्माभिनिवेशमूलाः, रागादयो रागद्वेषमायामाना अनंतानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च कषायाः, तथा हास्यादयो नव नोकषायाश्वादिग्रहणेन गृह्यन्ते । नतु च रागो लोभस्तदादयो दोषाः कथं मिथ्यादर्शनमूलाः स्युरसंयतसम्यग्दृष्टयादिषु सूक्ष्मसांपरायांतेषु मिथ्यादर्शना. भावेऽपि भावात् इति न मन्तव्यम्, तेषामनन्तसंसारकारणानां मिध्यादर्शनाभावे संभवाभावात् मिथ्यादृशां मिथ्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy