SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ युफ्त्यनुशासन नगमादयो नया परसरापेक्षाः पुरुषार्थहेतवस्तथादृष्टत्वादंशांशिवत् । तदनेन स्थितिग्राहिणो द्रव्यार्थिक भेदा नैगमसंग्रहव्यवहाराः, प्रतिक्षणमुत्पादव्ययग्राहिणश्च पर्यायार्थिकभेदा ऋजुसूत्रशब्दसमभिरूडैवंभूताः परस्परापेक्षा एव वस्तुसाध्यार्थक्रियालक्षण पुरुषार्थनिर्णयहेतको नान्यथेति दृष्टागभाभ्यामविरुद्धमर्थप्ररूपणं यत्सत्तत्सर्व प्रतिक्षणं स्थित्युदयव्ययात्मकमन्यथा सत्वानुपपत्तेरिति युक्त्यनुशासनमुदाहृतं प्रतिपत्तव्यम् । ननु च परस्परनिरपेक्षाः नयाः कचिदपि पुरुषार्थमसाधयन्तोऽपि सत्तामात्रेण व्यवस्थिति प्रतिपद्यत एवं सांख्याभिमतपुरुषवदिति न मन्तव्यम् । तेषामसिक्रियायामपि हेतुखानुपपत्तेस्तद्वत, यथैव हि परस्परनिरपेक्षा नयाः पुरुषार्थक्रियायां धर्मार्थकाममोक्षलक्षणायां हेतवो न संभवंति तथासिक्रियायामपि सत्तालक्षणायां खरविवाणादिवत्, ततः परस्परापेक्षा एवं प्रतिक्षणं स्थित्युत्पत्तिव्ययाः सचं वस्तुल. क्षणं प्रतिपयंत इत्यनेकांतसिद्धिः। स्यादाकूतं, जीवादिवस्तुनोऽनेकांतात्मकत्वेन निश्चये स्वात्मनीव परात्मन्यपि रागः स्यात्कथंचित्स्वात्मपरात्मनोरभेदात्तथा परासनीय स्वात्मन्यपि द्वेषः स्यात्तयोः कथंचिद्भेदात, रागद्वेषनिबंधनाश्चेासूयामदमानादयो दोषाः संसारहेतवः सकलविक्षेपकारिणः स्वर्गापवर्गप्रतिबंधकारिणः प्रवर्तन्ते, ते च प्रवर्तमानाः समत्वं मनसो निवर्तयन्ति, तद्विनिवर्तनं समाधि निरुणद्धीति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy