________________
१२९
टोकासहित। शिभावप्रतिपादकागमस्य युक्तिविरुद्धत्वादागमाभासत्वसिद्धेः। ___स्यान्मतमंशेभ्योऽशी पृथगेच पृथक्षत्ययविषयत्वात् । यो यतः पृथक्प्रत्ययविषयः स ततः पृथगेवयथा स्तम्भेभ्यः कुडथ, पृथक्प्रत्ययविषयश्चांशेभ्योऽशी, तस्मात्पृथगेवेति । तदप्य. सम्यक, सर्वथा पृथक्प्रत्ययविषयत्वस्य हेतोरसिद्धत्वात्कथंचिदपृथकात्ययविषयत्तात् । समवायादपृथकात्यय इति चेत् , न, सर्वथा भिन्नयोः समवायासंभवात् सह्यविंध्यवत् । संभवन्नपि समवायः पदार्थान्तरभृतः कथमिहांशेवंशीति प्रत्ययहेतुरुपपद्यते ! सो विध्य इति प्रत्ययहेतुत्वप्रसंगात् । प्रत्यासत्तिविशेषादिहांशेध्वंशीति प्रत्ययमुपजनयति समवायो न पुनरिह सह्ये विंध्य इति प्रत्ययमुत्पादयति प्रत्यासत्तिविशेपाभावादिति चेत, कः पुनः प्रत्यासत्तिविशेष: समवायसमवायिनोः संभाव्येत ? विशेषणविशेष्यभाव इति चेत, सहि समवायिनोः समवायो विशेषणं किमर्थान्तरभूतपनान्तरभूतं वा ? यद्यर्थान्तरभूतं विशेषणं तदांशांशिनोरिव सह्यविध्ययोरपि समवायो विशेषणं स्यादर्थान्तरभूतत्वाविशेषात् । यदि पुनरनान्तरभूतं विशेषणं समवायः समवायिनोग्नेरौष्यवदुपवर्यतेतदा कचित्तादात्म्यमेव समवाय इति नांशेभ्यों
शी सर्वथा पृथगवतिष्ठते तत्समवायस्थानिस्तम्भावलक्षणस्प कथंचित्तादात्म्यस्यैव प्रसिद्धस्ततः परारापेक्षा एवांशांशिनः पुरुषार्थहेतुरिति निश्चितप्राय। तद्वदेव नया नैगमादयः परस्परापेक्षा एवासिक्रियायां दृष्टा इति घटनीयं । तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org