SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२८ युक्त्यनुशासनं। मिथोऽनपेक्षाः पुरुषार्थहेतु__ नांशा न चांशी पृथगस्ति तेभ्यः । परस्परेक्षाः पुरुषार्थहेतु दृष्टा नयास्तद्वदसि क्रियायाम् ॥५१॥ टीका-अंशा धर्वा वस्तुनोऽवयवास्ते च परस्परनिरपेक्षा पुरुषार्थस्य हेतवो न संभवन्ति तथाऽनुपलभ्यमानत्वात् । यद्यथाऽनुपलभ्यमानं तत्तथा न व्यवतिष्ठते यथाऽनिः शीततयाऽनुपलभ्यमानस्तद्रूपतयाऽनुपलभ्यमानाश्च पुरुषार्थहेतुतया परस्परनिरपेक्षाः सत्त्वादयो धर्माः कचिदवयवा वा तस्मान पुरुषार्थहेतुतया व्यवतिष्ठन्त इति युक्त्यनुशासनं दृष्टागमाभ्यामविरुद्धत्वात् , तथांशाः परस्परापेक्षाः पुरुषार्थहेतुतया व्यरतिष्ठते तथैव दृष्टत्वात् । यद्यथा दृष्टं तत्तथैव व्यवतिष्ठते, यथा दहनो दहनतया दृष्टः, तत्स्वभावतया दृष्टाश्च पुरुषार्थहेतुतयांशाः परस्परापेक्षाः तस्मात्तथैव व्यवतिष्ठत इति स्वभावोपलब्धिः स्वभावविरुद्धोपलब्धिर्वा स्वपरपक्षविधानप्रतिषेधयो बर्बोद्धव्या । तथा नांशेभ्योऽशी पृथगस्ति तथाऽनुपलभ्यमानस्वात् , यद्यथाऽनुपलभ्यमानं तत्तथा नास्त्येव यथा तेजःशीततया, सर्वदाऽनुपलभ्यमानश्चांशेभ्यः पृथगंशी तस्मान्नास्तीति स्वभावानुपलब्धिः । न चात्र दृष्टतिरोधः परस्परविभिन्नानामर्थानां सह्यविध्यादीनामंशांशिभावस्यादृष्टत्वात् । न बागमविरोधस्तत्पतिपादकागमाभावात, परस्परविभिन्नांशां. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy