SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ टोकासहित। १३० युक्तं विशेषस्य तदात्मकत्वात्सामान्यविशेषयोरैक्यसिदिरिति वचने दूषणमुच्यते-ऐक्ये तयो सामान्यविशेषयोरन्यतरत्सामान्यरूपं विशेषरूपं वा निरात्म स्यात् । तत्र विशेषरूपस्य निरात्मत्वे तदविनाभाविनः सामान्यरूपस्यापि निरात्मत्वापते। सर्व निरात्मकत्वं प्रसज्येत, सामान्यरूपस्य च निरात्मत्वे विशेषरूपस्यापि तदविनाभाविनो निरात्मत्वानुषंगान तयोरैक्यमभ्युपगन्तव्यम् । ननु च सर्वगतं सामान्य विशेषैरश्लिष्टमेव वागास्पद, न पुनरात्मान्तरापोहसामान्यं तस्यावस्तुत्वादिति वदंतं प्रति बदन्ति अमेयमश्लिष्टममेयमेव भेदेऽपि, तवृत्त्यपवृत्तिभावात् । वृत्तिश्च कृत्स्नाशविकल्पतो न, मानं च नानन्तसमाश्रयस्य ॥५५॥ टीका-नियतदेशकालाकारतया नमीयत इत्यमेयं, सर्वव्यापि नित्यं निराकारं सत्चादिसामान्यं तदश्लिष्टं विशेषैरमेयमेवाप्रमेयमेव प्रमाणतः प्रमातुमशक्तेः । प्रत्यक्षतस्तत्ममितिरप्रसिद्धा तन्त्र तदप्रतिभासनात् ब्रह्मवत् । नाप्यनुमानतस्तत्ममीयते तदविनाभाविलिंगाभावात् । सत्सदित्याद्यनुवृत्तिप्रत्ययो लिंगमिति चेत् न, असदसदित्यायनुवृत्तिप्रत्ययेन व्यभिचारात्, तस्यासस्वसामान्याभावेऽपि भागात पदार्थत्वसामान्याभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy