________________
१२२
युक्त्यनुशासन क्षादिप्रमाणविरुद्धौ तेऽभिमतौ, ततो वाक्यं न धर्ममात्रं न ध. मिमात्रं वा प्रतिपादयतीति न सर्वथाप्यभिन्नौ धर्मधर्मिणौ न सर्वथा भिन्नौ नाऽपि सर्वथा भिन्नाभिन्नौ प्रतीतिविरोधात् । द्रव्यैकान्तस्य पर्यायकान्तस्य च परस्परनिरपेक्षपृथग्भूतद्रव्यपर्यायैकान्तवत् व्यवस्थानुपपत्तेः समर्थनात् , तत्र युक्त्यनुशासनायोगात् । किंपुनर्युक्त्यनुशासनमित्याहुःदृष्टागमाभ्यामविरुद्धमर्थ
प्ररूपणं युक्त्यनुशासनं ते। प्रतिक्षणं स्थित्युदयव्ययात्म
तत्त्वव्यवस्थं सदिहार्थरूपम् ॥४९॥ टीका-दर्शनं दृष्टं प्रत्यक्षं, आप्तचनमागमः। दृष्टं चागमश्च दृष्टागमौ ताभ्यामविरुद्धमबाधित विषयं यदर्थात्साधनरूपादर्थस्य साध्यस्य प्ररूपणं तदेव युक्त्यनुशासनं युक्तिवचनं ते तक भगवतोऽभिमतमिति पदघटना । तत्रार्थस्य प्ररूपणं युक्त्यनुशासनमिति वचने प्रत्यक्षमपि युक्त्यनुशासनं प्रसज्येत तद्व्यवच्छेदार्थमर्थात्प्ररूपणमिति व्याख्यायते सामर्थ्यादर्थस्य तदिति प्रतीतेः। तथाऽपि शीतोऽग्निद्रव्यत्वाजलवदिति, प्रेत्यासुखप्रदो धर्मः कर्मत्वादधर्मवदिति च प्रत्यक्षविरुद्धमागमवि रुद्धं चार्थप्ररूपणं युक्त्यनुशासनं प्राप्तमिति न शंकनीयम् । दृष्टागमाभ्यामविरुद्धमित्याभिधानात् । तथा चान्यथाऽनुपपन्नत्वनियमनिश्चयलक्षणात् साधनात्साध्यार्थप्ररूपणं युत्त यनुशासन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org