SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ टोकासहित। मिति प्रकाशितं भवति दृष्टागमाभ्यामविरोधस्यान्यथानुपपत्तेरिति देवागमादौ निर्णीतप्रायम् । अत्रोदाहरणमुच्यते-प्रतिक्षणं स्थित्युदयव्ययात्मार्थरूपं सत्त्वादिति । न तावत्प्रत्यक्षविरुद्धः पक्षः, स्थित्युदयव्ययात्मनोऽर्थरूपस्य वहिर्घटादेरिवांतरात्मनोऽपि साक्षादनुभवात् , स्थितिमात्रस्य सर्वत्रासाक्षात्करजादुदयव्ययमात्रवत् । न चायं स्थित्युदयव्ययात्मनोऽर्थरूपस्यानुभवः सुनिश्चितासंभवद्धाधकममाणात्मतिक्षणमनुपपन्न: कालान्तरे स्थित्युदयव्ययदर्शनात्तत्प्रतीतिसिद्धेरन्यथा सकृदपि तदयोगात् खरविषाणादिवदिति न प्रत्यक्षविरोधः । नाऽप्यागमविरोधोऽस्य युक्त्यनुशासनस्य संभाव्यते । "उत्पादव्ययध्रौव्ययुक्तं सदिति” परमागमस्य प्रसिद्धत्वात्सर्वथैकान्तागमस्याप्रसिद्धेदृष्टेष्टविरुद्धार्थाभिधायित्वात्मतारकपुरुषवचनवदिति निरवद्यः पक्षः प्रतिक्षणं स्थित्युदयव्ययात्मकस्य विवादाध्यासितस्य साध्यधर्मस्य जीवादेरर्थरूपस्य च साध्यधर्मिणः प्र. सिद्धस्याभिधानात् । तथा हेतुश्च सत्त्वादिति नासिद्धः सर्व त्रार्थरूपे तदभावे सर्वाभावप्रसंगात् । नापि संदिग्धः सर्वत्र सत्वस्य संदेहे संदेहस्याऽपि सत्त्वनिश्चयविरुद्धत्वात् । नाप्यज्ञातासिद्धो हेतुः सर्वस्य वादिनः सत्वपरिज्ञानाभावे वादित्वविरोधात् । नाप्यनैकान्तिकः कान्यतो देशतो वा विपक्षातित्वात् । द्रव्येण स्थितिमता जन्मव्ययरहितेन सता पर्यायमात्रेण चोत्पादव्ययवता स्थितिशून्येन हेतोरनेकान्त इति चेत्, न सत्त्वस्य वस्तुत्वस्वरूपस्य हेतुत्वात् सत्त्वधर्मस्य नयविषयस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy