SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। द्रव्यप्रतीतहेतुर्यश्च पर्यायप्रतीतिनिमित्त तौ चेत्परस्परं भिन्नावात्मानौ कथं तदात्मकमेकं तत्त्वं सर्वथाव्यवतिष्ठते भिन्नाभ्यामात्मभ्यामभिन्नस्यैकत्वविरोधात् । यदात्वेकस्मादभिन्नौ तावात्मानौ स्यातां तदाप्येकमेवावतिष्ठते सर्वथैकस्मादमिन्नयोस्तयोरेकत्वसिद्धेरिति न द्वयात्म्यं विरुद्धत्वात् । को ह्यबालिशः प्रमाणमंगीकुर्वन् द्वावात्मानौ सर्वथैकस्य वस्तुनो भिन्नौ स्वयपर्पयेत् ततो द्वैयास्म्यं द्वयात्मकत्वं तत्वं सर्वथैकार्पणया विरुद्धमेवेति मन्तव्यम् । कथमिदानीमविरुद्धं तत्चं सिध्येदिति चेत् , उच्यते'धर्मी च धर्मश्च मिथविधेमौ न सर्वथा तेऽभिमतौ विरुद्धौ । ते तवः भगवतोऽहंतः स्याद्वादिन इमौ प्रत्यक्षतः पतिभासमानौ सर्वथा सर्वेणाऽपि प्रकारेणानुपानादिमतिभासविशेषेण विरुद्धौ नेति संबंधः। कौ ताविमौ धर्मी च धर्मश्चेति धमिधर्मावित्यर्थः । कि तौ सर्वथा मिथो भिन्नावेवाभिन्नावेव भिन्नाभिनावेव त्रिधा वा कल्प्येते । न तावत्पथमः पक्षः प्रमाणविरोधाता नाऽपि द्वितीयः सहानवस्थाविरोधात् । नाऽपि तृतीयो विकल्प:, भिन्नौ चाभिन्नौ चेत्युभयदोषानुषंगेण विरुद्धत्वादिति कथमीवरुद्धौ तौ यनस्तेऽभिपताविति न मन्तव्यम्,त्रिधापि तयोराभिमतस्वात् । तथाहि-धर्मिधर्मों स्यादभिन्नौ द्रव्यार्थिकप्राधान्यात, स्याद्भिन्नौ पर्यायार्थिकप्राधान्यात, स्थान्मिथो भिन्नौ चामिन्नौ च क्रपार्पितद्वयादिति त्रिभिः प्रकारैः स्याद्वादन्यायवादिभियवस्थाप्यते । न पुनः सर्वथापितौ त्रिवापि धर्मधर्मिणौ प्रत्य१ द्रव्यमिति पुस्तकान्तरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy