________________
युक्त्यनुशासन। नस्य प्रत्यक्षविरुद्धपतत्वात् कालात्ययापदिष्टत्वाच हेतो तः साध्यसिद्धिः । एतेनावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोः सामान्यतद्वतोः विशेषतद्वतोश्च परस्परतः सर्वथा भेदे साध्ये प्रयुज्यमानस्य हेतो? कालात्ययापदिष्टत्वं प्रतिवर्णित पक्षस्य प्रत्यक्षवाधितत्वात् । कथंचित् तादात्म्यवर्तिनोरेवाविज्वग्भूतयोस्तयोः प्रत्यक्षबुद्धौ प्रतिभासनात् । कथंचिद्भदे साध्ये सिद्धसाध्यतापत्तिस्तत्र प्रत्यक्षस्य भ्रांतत्वादबाधकत्वे वहिरंतश्च न किंचित् प्रत्यक्षतः सिध्येत् भ्रांतादपि प्रत्यक्षात कस्यचित्सिद्धौ प्रत्यक्षतदाभासव्यवस्था किमर्थमास्थीयेत ? न च भ्रांतं प्रत्यक्षं धर्मिदृष्टान्तहेतुव्यवस्थापनायालं, यतोऽनुमानमत्यंतभेदमवयवावयव्यादीनां व्यवस्थापयदभेदप्रतिभासिनः प्रत्यक्षस्य बाधकमनुमन्येमहि ततोऽनुपानं कस्यचिद्धाधकं साधकं वा स्वयमनुरुच्यमानेन प्रत्यक्षमभ्रान्तं धर्मिदृष्टांतहेतुविषयमुररीकर्तव्यं तच्चोररीकुर्वता न द्रव्यपर्यायौ परस्परमत्यंतभिन्नौ प्रतिज्ञातव्यौ प्रत्यक्षबुद्धौ सकृदपि तथा प्रतिभासाभावात् ततो न द्रव्यपर्यायपृथव्यवस्था युक्तिमती द्रव्यव्यवस्थावत्पर्यायव्यवस्थावच्चेति प्रपंचतोऽन्यत्र परीक्षितं प्रतिपत्तव्यम् । . अत्रापरःप्राह, द्वयात्मकमेकं तत्त्वं व्यवतिष्ठते द्रव्यमात्रस्य पर्यायमात्रस्य च पृथग्भूतद्रव्यपर्यायमात्रवत् व्यवस्थानुपपत्तेरिति! सोऽप्येवं प्रष्टव्यः, किं सर्वथा द्वैयात्मकमेकस्यायते कथंचिद्वा ? प्रथमपते द्वैयात्म्यमेकार्पणया विरुद्धं न व्यवतिष्ठत एव, यो ह्यात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org