SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११६ टोकासहितं । व्यवस्था प्रमाणाभावात् द्रव्यैकांतवदिति । पृथग्भूतपरस्परनिरपेक्षद्रव्यपर्यायव्यवस्थाऽप्यनेन प्रत्युक्ता तत्रापि प्रमाणाभावाविशेषात् । न हि प्रत्यक्षतः सर्वथा पृथग्भूतयोव्यपर्याययोः प्रतीतिरस्ति तयोरविष्वग्भूतयोरेव सर्वदा संवेदनात्। समवायात्तथा प्रतीतिरिति चेत् , सोऽपि समवायस्ताभ्यां पदार्थान्तरभूतो न प्रत्यक्षतः सिद्धस्तदात्मकस्यैव कथंचित्तस्य प्रतीतेः । अथ समवायसमवायिनोः परस्परमात्मनोश्च ताभ्यामभेदप्रत्ययहेतुरित्यभिधीयते, न तर्हि प्रत्यक्षतो भेदपतिभासो नाऽप्यनुमानात् द्रव्यपर्याययो दैकान्तः सिद्धस्तथाविधहेत्वभावात् । ननु द्रव्यपर्यायौ मिथो भिनौ भिन्नतिभासत्वात् । यौ यौ भिन्नप्रतिभासौ तौ तौ भिन्नौ यया घटपटौ तथा च द्रव्यपर्यायौ भिन्न प्रतिभासौ तस्माद्भिन्नावित्यनुमानात मिथो भिन्नद्रव्यपर्यायव्यवस्था भवत्येवेति चेत्, न, हेतोरसिद्धत्वाव, भिन्नप्रतिभासत्वं हि द्रव्यपर्याययोर्न प्रत्यक्षतः सर्वथाऽस्तीति समर्थितं प्राक् । अनुमानाद्भिन्नप्रतिभासत्वमिति चेत किमस्मादेवानुमानादनुमानान्तराद्वा । न तावदाद्यः पक्षः परस्पराश्रयानुषंगात् । सिद्धे ह्यतोऽनुमानाद्भिन्नप्रतिभासित्वे सतीदमनुमानं सिध्यति, सिद्धे वाऽस्मिन्ननुमाने भिन्नप्रतिभासत्वमिति गत्यन्तराभावात् । अनुमानान्तराद्भिनप्रतिभासत्वसिद्धौ तदेव वाच्यं द्रव्यपर्यायौ भिन्नप्रतिभासौ विरुद्धधर्माधिकरणत्वात् यौ यौविरुद्धधर्माधिकरणौ तौ तौ सर्वथा भिन्नप्रतिभासौ यथा जलानलौ तथा च द्रव्यपर्यायौ तस्माद्भिनप्रतिभासावित्यनुमा Jain Education International For Private & Personal Use Only www.jainelibrary.org ww
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy