SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । द्वैतशुन्यवादयोरपि कचित्कदाचित्तन्निर्णयात्पुनरन्यत्र तत्त्वसामान्यमुपलब्धत्रतस्तयोश्वानुस्मरतः संशयप्रवृत्तेर्विचारः प्रवर्त्तत एवेति मतं, तदापि येनात्मना सत्ताद्वैतं पूर्व निर्णीतं तेनैक सर्वशून्यत्वं रूपान्तरेण वा ? न तावत्प्रथमः पक्षो व्याघातात्, रूपान्तरेण तु तन्निर्णये स्याद्वादमाश्रित्य विचारः प्रवर्त्तत इत्येतदायातं । तथा च नानेकांतवादिनां विचारात्पूर्वमनेकांत त्वामासद्धिस्तदप्रसिद्धौ विचाराप्रवृत्तेः । न च विचारादेवानेकांतत्वसिद्धि, प्रत्यक्षतः परमागमाच्च सुनिश्चितासंभवद्वाधकप्रमाणादनेकांतत्व सिद्धेरप्रतिबंधात् न चैव विचारानर्थक्यं तदबलादेव तत्त्वसिद्धेरभ्युपगमात् प्रत्यक्षादागमाच्च प्रतिपन्नतत्त्वस्यापि कुतश्चिद्दृष्टादृष्टनिमित्तवशात्कस्यचित्कचित्कथंचित् संशयोत्पत्तौ विचारस्यावकाशात् सर्वत्राऽहेतुवादहेतुवादाभ्यामाज्ञा प्रधानयुक्तिप्रधानयोस्तत्त्वप्रतिपत्तिविधानात् । ततोऽनेकान्तवादिन एव वादेऽधिकारः सदुपायत्वात् । कचित् कदाचित् कथंचित् कुतश्चित् कस्यचिन्निश्चय सद्भावात् । किंचिन्निर्णीतमाश्रित्य कचिदन्यत्रानिर्णीते विचारप्रवृत्तेः सर्वत्र विप्रतिपद्यमाना नां निराश्रय विचारानुपपत्तेः । तथा चोक्तं तत्त्वार्थालंकारेकिंचिन्निर्णीतमाश्रित्य विचारोsन्यत्र वर्त्तते । सर्वविप्रतिपत्तौ तु कचिन्नास्ति विचारणा ॥ इति ॥ ततो न विचारसामर्थ्याद् रुद्रव्य व्यवस्थानाऽपि पर्याय सत्रन्यवस्था, द्रव्यविकलस्य पर्यायस्य सकलप्रमाणावि ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy