SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । तस्य विचारात्मागेव सिद्धेः। पश्चाचेत् सर्वस्याविचाररमणीयेन लोकव्यवहारेण विचारस्य प्रवृत्तेर्न पर्यनुयोगो युक्तः, विचारकाले हि न कश्चिदपि शून्यवादी सत्ताद्वैतवादी वा, येन सर्वथाऽनुपायत्वाद्वादेऽनधिकारः प्रसज्येत ! अनेकान्तवादिनामपि तद्विचारोत्तरकालमेव सर्वमनेकान्तात्मकं तत्वमिति प्रतिपत्तव्यं, कथमन्यथा परस्पराश्रयाख्यो दोषो न स्यात्, प्रसिद्धेऽनेकान्तत्वे विचारप्रवृत्तिस्तस्यां च सत्यामनेकान्तपसिद्धिरिति गत्यंतराभावात् । किंचिदपि तत्त्वमनभ्युपगम्य परीक्षाप्रवृत्तौ तु न कश्चिद्दोषः परीक्षोत्तरकालं यद्विनिश्चित तत्तत्त्वमिति व्यवस्थानात् । तथा च सत्ताद्वैतवादिनोऽपि वि. चारसामर्थ्यात् सत्ताद्वैततत्त्वव्यवस्थितौ यथादर्शनं संवेद्यसंवेदकमावस्य प्रतिपाद्यपतिपादकभावस्य वा स्वपरविभागभावनाधीनस्य प्रतिबंधकभावात्सर्वमनवद्यमिति केचित् । तदप्यतिमुग्धबुद्धिविजूंभितं, किंचिन्निीतमनाश्रित्य विचारस्यैवान वृत्तेस्तस्य संशयपूर्वकत्वात्, संशयस्य च निर्णयनिबंधनत्वात् पूधमनिर्णीतविशेषस्य पश्चात् कचित्संशयस्यानुपलब्धेः स्थाणुपुरुषसंशयवत् । य एव हि पूर्वनिश्चितस्थाणुपुरुषविशेषः म तिपत्ता तस्यैवान्यत्रोव॑तासामान्य प्रत्यक्षतो निश्चितक्तम्त - द्विशेषयोः स्मरतः संशयोत्पत्तिदर्शनात् । न चैवं सत्ताद्वैततत्त्व किं वा सर्वथा शून्यमिति संशय उत्पद्यते पूर्व तद्विषयनिर्णयानुपपत्तेः । कचित्तनिर्णयोत्पत्तौ वान सत् द्वैतवादिनः शून्य वादिनो वा स्वेष्टसिद्धिः । यदि पुनः सर्वमभ्युपगम्य सत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy