SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ टोकासहित। ११६ इत्यात्मरूपेणाभेदः । यथा च वस्तुत्वेन वस्तुनः संसर्गस्तथा वस्तुविशेषैरपि, सविशेषस्यैव तस्य सम्यक् सृष्टौ व्यापारात् ततः संसर्गेणाप्यभेदः । यस्तु वस्तुत्वस्य गुणस्य वस्तुगुणिदेशः स एव वस्तुविशेषाणामिति गुणिदेशेनाऽपि तदभेदः। य एव चार्थो वस्तुत्वस्याधिकरणलक्षणो वस्त्वात्मा स एव सकलवस्तुधर्माणामित्यर्थतोऽपि तदभेदः। यश्च वस्तुनि वस्तुत्वसंबंधः समवायोऽविष्वग्भावलक्षणः स एव सकलधर्मा. णामिति संबंधेन तदभेदः । य एव चोपकारो वस्तुनो वस्तुस्वेन क्रियतेऽर्थक्रियासामलक्षणः स एव सकलधमैरित्युपकारेणैव तदभेदः । यथा च वस्तुशब्दो वस्तुत्वं प्रतिपादयति तथा सकलवस्तुधर्मानपि तैविना तस्य वस्तुत्वानुपपत्तरिति शब्देनाऽपि तदभेदः । पर्यायार्थिकप्राधान्येन तु परमार्थतः कालादिभिर्भेद एव धर्मधर्मिणोरभेदोपचारात् । वस्तुशब्देन सकलधर्मविशिष्टस्य वस्तुनोऽभिधानात् सकलादेशो न विरुध्यते । ततः स्याद्वस्वेवेत्यादिशब्दः तत्त्वमशेषरूपं प्रतिपादयतीति नानात्वरूपस्यापि वस्तुनो वाचकसंभवः सकलादेशवाक्येन तस्य तथा वक्तुं शक्यत्वात् । ननु च द्रव्यमानं तत्त्वं तस्य द्रव्यपदेनाभिधानात् पदान्तराणामपि तत्रैव व्यापारात् तद्व्यतिरेकेण पदार्थासंभवादित्येके । पर्यायमात्रमेव तत्वं द्रव्यस्य सफलपर्यायव्यापिनो विचार्यमाणस्यायोगात् द्रव्यादिपदेनापि पर्यायमात्रस्यैव कथनात्तत्र प्रतिप्राप्तिदर्शनाच्चेत्यन्ये । द्रव्यं पयोयश्च पृथगेव तत्वं तयोस्तादात्म्यविरोधात् द्रव्यपदेन द्रव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy