________________
११०
युफ्त्यनुशासनं। प्रमाणाधीनस्य प्रयोगादशेषरूपं तत्त्वमभिधीयते । सदिति शब्दो हि सकलसद्विशेषात्मकं सदितरात्मकासद्विशेषात्मक च तचं प्रतिपादयति कालादिभिरभेदात् । तथा द्रव्यमिति शब्दो निशेषद्रव्यविशेषात्मकं द्रव्यतत्वं सकलपर्यायविशेषात्मकमद्रव्यगुणाद्यात्मकं च प्रकाशयति । तथैव जीव इति शब्दो जीवतत्वं सकलजीवविशेषात्मकं जीवपर्यायरूपं जीवाजीववि. शेषात्मकं च कथयति । तथैव धर्म इत्यधर्म इत्याकाश इति काल इति च शब्दो धर्ममधर्भमाकाशं कालं च सकलस्वविशेघात्मकं निवेदयति । पुद्गल इति शब्दोऽखिलपुद्गल विशेषात्मकं पुद्गलद्रव्यमेवेति प्रतिपत्तव्यं विधिरूपस्य भवार्थस्य प्राधान्यात्। यदा पुनरसदितिशब्दः प्रयुज्यते तदाऽप्यसत्तत्त्वं पररूपादिचतुष्टयापेक्षं कालादिभिरभेदेनाभेदोपचारेण सकलासद्विशेपात्मकं तत्वं ख्यापयति, व्यवहारस्य भेदप्राधान्यात् । तथैवाद्रव्यमजीव इत्यादि प्रतिषेधशब्दः सकलासद्विशेषात्मकमद्रव्यस्वमजीवादितत्वं च प्रत्याययति । स्यादिति निपातेन तथा तस्योद्योतनादेवकारेणान्यथाभावनिराकरणात् । वस्तुत्वमिति शब्दस्तु स्यात्कारलांछनः सैवकारः सकलवस्तुविशेषसदसदादिरूपं तत्वं कालादिभिरभेदेनाभेदोपचारेण प्रख्यापयति तस्य भवार्थव्यवहश्वत्त्वाद्विधिनिषेधप्राधान्येन युगपदभिधानात् , यत्काले वस्तुनो वस्तुत्वं तत्काल एव सकलवस्तुविशेषास्तस्य तद्व्यापकत्वादिति कालेनाभेदस्तेभ्यो द्रव्यार्थिकमाधान्यात्। यथा च वस्सुनो वस्तुत्वमात्मरूपं तथा सर्वे वस्तुविशेषाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org