SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ टोकासहित। आन्यथा । कुत इति चेत् , यथोपाधि यथा विशेषणं विशेषस्य भेदस्य भावात् सद्भावात् " धर्मे धर्मेऽन्य एवाऽर्थो धर्मिणोऽनंतधर्मिणः " इत्यन्यत्रापि वचनात् । नयादेशो हि वस्तुनो धर्मभेदाद्विशेषो न प्रमाणदेश इति । जीवादि तत्वमपि तर्हि प्रधानगुणभूतकान्तमायातमिति न शंकनीयं । " तत्वं त्वनेकान्तमशेषरूपं" इति वचनात् । तत्त्वं जीगादि प्रमाणार्पित सकलादेशात् “ सकलादेशः प्रमाणाधीनः" इति वचनात तदनेकान्तमेव स्याद् अनेकान्तोऽप्यनेकांतो न पुनरेकान्तस्तरूप नयार्पणयोक्तत्वात् । कुतस्तदनेकांतमित्युच्यते- यतोऽशेपरूपं अशेष सकलं रूपं यस्य तदशेषरूपं विकलरूपस्य तत्वैकदेशत्वात् । कथमिदानी स्याज्जीव एव स्यादजीव एवेत्यादिना प्रमाणवाक्येनाभिधीयत इति शंकायामिदमुच्यते "द्विधा भवार्थव्यवहारवत्वादिति" । तत्त्वं द्वाभ्यां प्रकाराभ्यां व्यवस्थितं द्रव्यरूपं भवार्थबच्चात् पर्यायरूपं व्यवहारवत्त्वात् । भवार्थो हि सद्व्यं विधिर्व्यवहारोऽसद्व्यं गुणः पर्यायः प्रतिषेधः, तत्तत्त्वमेव वस्तुन इति द्विप्रकारं तत्त्वं प्रकारान्तराभावात् । तत्र यदा यदा सद्र्व्यं जीवो धर्मास्तिकायोऽधर्मास्तिकाय आकाशं काल: पुद्गलो मनुष्यादिरिति वा विधिलक्षणभवार्यप्ररूपणायां सदिति शब्दः प्रयुज्यते तदा कालात्मरूपसंसर्गगुणिदेशार्थसंबंधोपकारशन्दैरभेदेनाभेदात्मकस्य वस्तुनोऽभिधानात् सकलादेशस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy