________________
(१२९)
प्रशस्तिः । दुग्धाभोनिधिना च रौप्यकलशेनेशक्षितिधेण च । दिङ्नागैः सितपक्षिभिश्च शशिना साकं सदा स्पर्द्धते । कीत्तिर्यस्य मुनीश्वरस्य विमला विश्वे स्वशुभ्रत्वतो जज्ञे विश्वगुणाकरोऽत्र विजयानन्दाऽभिधः सूरिराट् ॥१॥ समुद्रं गामीत्तरणिमपि तजोभिरनधै हिमांशु वाक्छैत्याद्विमलधिषणातः सुरगुरुम् । यशोभि दिङनागान् व्यनयत मरालं च गतिना ततः पट्टेऽस्य श्रीविजयकमलाचार्य उदितः ॥ २ ॥ धीमांस्तत्पदपद्मयुग्ममधुलिड वादीभकण्ठीरवो नानाशास्त्रसमुद्रमन्थनहरि विज्ञानिचूडामणिः । विख्यातो भुवनेऽत्र लब्धिविजयो व्याख्यानवाचस्पति रास्ते ध्वस्ततमा गुणी मुनिपती रन्ता गुणाब्यौ सताम् ॥ ३ ॥ तेन बेचरशिक्षार्थ, लोकानामुपकारकम् । रहस्यं सर्वसिद्धान्त-ततेात्वा विनिर्ममे पुस्तकमेतच्छ्री देवद्रव्यादिसिद्धिसाधकम् । सुसार्थमिव लोकानां, मिथ्यात्वारण्यपातिनाम् जैनपत्राधिपाद्या ये, मिथ्यात्वमालिनाशयाः । तेषांमप्यत्र सच्छिक्षां, ददे तद्धितारिणीम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org