SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४२ धीमान् धार्मिकसंमतः प्रतिदिनं सद्धर्मकर्मोद्यतः । विज्ञानैकनिधिविवेककलितः संतोषबद्धादृतिः, अन्यः सन्नयभाजनं तदनुजो यदे (जज्ञे ? ) दयालुः सुतः ।।१२।। निजपुत्रकलत्रसमन्वितेन संसारवासचकितेन । श्रीमदृषभसुमंदिरजगतीवरदेवकुलिकायाँ ।।१३।। दशरथसंज्ञेनेदं, अंबासांनिध्यजातधर्मधिया । सकलकल्याणमाला,-संपत्तिविधायकं किं च । १४॥ श्रीमत्यर्बुदपर्वते सुविपुले सत्तीर्थभूते जने, पृथ्वीपालवरप्रसादवशतो भव्यांगिनिस्तारकं । भ्रातुः स्वस्य च पुण्यसंचयकृते निःपादितं सुंदरं, श्रीमन्नेमिजिनेशबिंबममलं सल्लोचनानंदकं ।।१५।। विकटकुटिलदंष्ट्रा-भीषणास्यं कटा (डा) रधृतशबलसटालीभासुरं तुंगमुच्चैः । वहति सुतमुदारं यांकसंस्थं सदैव, मृगपतिमधिरूढा सांबिका वोऽस्तु तुष्टयै ।।१६।। द्वादशशतात्मकेष्वेकाधिकेषु श्रीविक्रमादतीतेषु । ज्येष्टप्रतिपदि शुक्र, प्रतिष्ठितो नेमितीर्थकरः ॥१७॥ सं० १२०१ २२-श्रीश्रीमालकुलोद्भव-वीरमहामंत्रिपुत्रसन्मत्रि-। श्रीनेढ़पुत्रलालिग-तत्सुतमहिंकसुतेनेदं ॥१॥ निजपुत्रकलत्रसमन्वितेन सन्मंत्रिदथरथेनेद । श्रीनेमिनाथबिब, मोक्षार्थं कारितं रम्यं ॥२॥ २३-महं० श्री नीना मूर्तिः । महं श्री लहर मूर्तिः । महं श्री वीर मतिः। महं श्री नेढमूतिः । मह श्री लालिगमत्तिः । मह श्री महिंदुयमूतिः । हेमरथ मूत्तिः । दशरथस्य मूत्तिः ॥ दे० (११) २४--० १३७८ ज्येष्ठ बदि ६ सोमदिने श्री युगादिन (म) जीर्णोद्धारे अस्मिन् देऊरिकायां श्री वर्द्धमानप्रभृतिबिंबानि महं० कुमरासुत महं पूनसीहेन कारापितानि पुत्र० गूहा धांधल, मूल, गेहा, रुदा सहितेन गृह भ्रातृ पेथड पुत्र बाहडसहितेन उशवाल ज्ञातीय धांधल भार्या धांधल दे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy