________________
सकलनयविधिज्ञो भावतो देवसाधु,
प्रतिदिनमविभक्तो दानशीलो दयालुः । विदितजिनमतोलंधर्मकर्मानुरक्त्रो, 'लहर' इति सुपुत्रस्तस्य जातः
पवित्रः ॥३॥ प्रावाजीज्जितदर्पितारिनिचयो यो जैन मार्गे पर,मार्हन्त्यं सुविशुद्धमन्वयवशप्राप्तं समारात्य (ध्य) च । श्रीमन्मूलनरेंद्रसंनिधिसुधानिस्पंदसंसेकित -- प्रज्ञापात्रमुदात्तदानचरितस्तत्सूनुरासीद (द्व) रः ।।४।। निजकुलकमलदिवाकर-कल्प: सकलार्थिसार्थकल्पतरुः । श्रीमद्वीरमहत्तम, इति यः ख्यातः क्षमावलये ।।५। श्रीमन्नेढो धीधनो धीरचेता, पासीन्मंत्री जैनधर्मैकनिष्ठः । आद्यः पुत्रस्तस्य मानी महेच्छ:, त्यागी भोगी बंधुपद्माकरेंदुः ॥६॥ द्वितीयकोऽद्वैतमलावलम्बी, दंडाधिपः श्री विमलो बभूव । येनेदमुच्चैर्भवसिंधुसेतु-कल्पं विनिर्मापितमत्र वेश्म ।७।। धर्माराममतिविवेकवसतिर्गांभीर्यपाथोनिधिः, दीनानाथपरोपकारकरणव्यापारबद्धादृतिः । जातो लालिगसंज्ञकोऽतिनिपुणः सद्धर्मलोकस्थितो, रूपन्यक्कृतपंचबाणमहिमा श्रीनेढमंत्र्यंगजः ॥८॥ महिंदुक 'इति धन्यस्तत्सुतश्चारुमूर्तिः, अखिलजनमनोलंशीलशालीनमूत्तिः । जिनमुनिपदपनाराधनध्वस्तपापः, प्रचितगुरुगुणौघः प्रादुरासीदमात्यः ।।६।। तत्पुत्रौ संजातौ, पुष्यताविवामलौ । हेमदशरथत्वेन, विख्यातौ नयशालिनौ ॥१०॥ तत्रद्योतिविवेकधामसुशमी मौनींद्रधर्मा (गमे ?), जोवा-जीव-विचारसारनिपुणश्चारित्रिसेवापरः । पापानुष्ठितिभीरुरासृ (श्रितजनत्राणोद्यतः सर्वदा, सारासार-विवेचनातिनिपुणप्रज्ञावदाताशयः ॥११॥ गंभीरः सरलः क्षमीदमयुतो दाक्षिण्यपाथोनिधि:,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org