________________
: ४४ :
याह्निक- सूत्रावली
पृ० १२२ - अष्टविंशदुपचारा -ज्ञानमालायाम् :
"ग्रर्ध्यं पाद्यमाचमनं मधुपर्कमुपस्पृशम् । स्नानं नीराजनं वस्त्र - माचामं चोपवीतकम् ॥ पुनराचमनं भूषा- दर्पणालोकनं ततः 1 गन्ध-पुष्पे धूपदीप, नैवेद्यं च ततः क्रमात् । पानीयं तोयमाचामं, हस्तवासस्ततः परम् ॥ ( हस्तवासः - करोद्वर्तनम् )। ताम्बूल - मनुलेपं च पुष्पदानं ततः पुनः ॥ गीतं वाद्यं तथा नृत्यं, स्तुति चैव प्रदिक्षरणाः । पुष्पाञ्जलि - नमस्कारावष्टत्रिंशत्समीरिताः ॥"
षोडशोपचार पूजामन्त्राः बृहत्पाराशर संहितायाम् : श्राद्ययावाहयेद्द वमृचा तु पुरुषोत्तमम् । द्वितीययासनं दद्यात्पाद्यं चैव तृतीयया ॥ अर्घश्चतुर्थ्या दातव्यः पंचम्याऽऽचमनं तथा । पड्यास्तानं प्रकुर्वीत सप्तम्या वस्त्रधौतकम् ॥ यज्ञोपवीतं चाष्टम्या, नवम्या गन्धमेव च । पुष्पं देयं दशम्या तु, एकादश्या च धूपकम् || द्वादश्या दीपकं दद्यात्त्रयोदश्या निवेदनम् । चतुर्दश्या नमस्कारं, पंचदश्या प्रदक्षिणाः || . षोडश्योद्वासनं कुर्याच्छेषकर्माणि पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org