SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रुतावतारः तस्य समीपे सकलं सिद्धान्तमधीत्य वीर सेनगुरुः । उपरितमनिबन्धनाद्यधिकारानष्ट च लिलेख ॥ १७८ ॥ आगत्य चित्रकूटात्ततः स भगवान्गुरोरनुज्ञानात् । वाटग्रामे चात्राऽऽनतेन्द्रकृतजिनगृहे स्थित्वा ॥ १७९ ॥ व्याख्याप्रज्ञप्तिमवाप्य पूर्वषट्खण्डतस्ततस्तस्मिन् । उपरितमबन्धनाद्यधिकारैरष्टादशविकल्पैः ॥ १८० ॥ Jain Education International ८९ सत्कर्मनामधेयं पठं खण्डं विधाय संक्षिप्य । इति षण्णां खण्डानां ग्रन्थसहस्त्रैर्द्विसप्तत्या ॥ १८९ ॥ प्राकृतसंस्कृतभाषामिश्रां टीकां विलिख्य धवलाख्याम् । जयधवलां च कषायप्राभृतके चतसृणां विभक्तीनाम् १८२ विंशतिसहस्रसद्ग्रन्थरचनया संयुतां विरच्य दिवम् । यातस्ततः पुनस्तच्छिष्यो जयसेनगुरुनामा ॥ १८३ ॥ तच्छेषं चत्वारिंशता सहस्त्रैः समापितवान् । जलधवलैवं षष्टिसहस्रग्रन्थोऽभवट्टीका ॥ १८४ ॥ एवं श्रुतावतारो निरूपितः श्रीन्द्रनन्दियतिपतिना । श्रुतपञ्चम्यामृषिभिर्व्याख्येयो भव्यलोकेभ्यः ॥ १८५ ॥ यत्किंचिदत्र लिखितं समयविरुद्धं मयाऽल्पबोधन । अपनीय तदागमतत्त्ववेदिनः शोधयन्तूच्चैः ॥ १८६ ॥ लोकद्वयेन वृत्तेनैकेनाशीतिशतमितार्याभिः । सप्तोत्तरद्विशत्या ग्रन्थेनायं परिसमातः ॥ १८७ ॥ ॥ इति ' इंद्रनंदि ' आचार्यकृतः श्रुतावतारः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy