SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीसोमदेवप्रणीता-- श्रीसोमदेवप्रणीता अध्यात्मतरंगिणी। 00: मा स्माऽधः स्ताद्धरित्री दिशतु स परमाः संपदोस्यामविभ्र. प्रोदास्ते यः पतत्स्म क्रम इति च कुतो निर्भरं सर्वदा यः। माऽगुर्गोत्रक्षितिर्धाः क्षितिमिति मरुतः प्रक्षिपन सूक्ष्मवीक्षान मा भूयोम्न्यप्रचारः पवनपथसदां वो यतोऽनूर्द्धबाहुः ॥ १ ॥ पातालांता बभूवुः खलजनजनिता वाक्पर्धाः कर्णपूरः क्रुध्यत्येषा च साक्षात्त्वयि मतिविशिनीभानुभासोऽर्चितांगे। आशावासोऽवसाने पवनपरवशैः पांशुभिः कुंतलालिमुत्पाद्याऽऽमूलमेनोद्रुमगहनजटाजालवद्वीतमोहे ॥२॥ प्राणेशो धारणायां चतुरवयवजे संप्रयोगे" धियोऽर्थे प्रत्याहारोऽक्षवृत्तेः स्वविषयविशसत् युक्त्त्युदर्के वितर्के। ध्याने तद्धयेयलीने यमनियमपथावस्थिते क्षेत्रनाथे माध्यस्थ्याब्धौ समाधौ समधिकधिषणो योगनिद्रामुपैति ॥३॥ १ पातालतले । २ विभूतीः । ३ अधरन् । ४ उदासीनो बभूव । ५ मा स्म पतत् मा स्म गच्छत् इति भावः । ६ कुलपर्वताः । ७ वायून् ८ वचनमार्गाः । ९ कर्णाभरणानि १० मतिर्बुद्धिः सैव बिसिनी कमलिनी तस्याः विकासायाऽऽदित्यदीप्तयः । ११ दिग्वस्त्रं । १२ परिदधाने । १३ मूलोन्मूलं यथा भवति तथा। १४ समीचीनसंयोगे । १५ द्रव्यपर्यायात्मकेऽर्थे । १६ प्रत्याहारो हि व्यावर्त्तनं अक्षवृत्तेः । कस्मात्, स्वविषयविसरादात्मीयोपभोग्ये रूपरसादौ विसरस्तस्मात् । १७ शुद्धात्मस्वभावतत्परे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy