________________
श्रुतावतारः
चतुरधिकाशीतिसहस्रग्रन्थरचनया युक्ताम् । कर्णाटभाषयाऽकृत महतीं चूडामणि व्याख्याम् ॥ १६६ ॥ सप्तसहस्रग्रन्थां षष्ठस्य च पश्चिका पुनरकार्षीत् ।। कालान्तरे ततः पुनरासन्ध्यां पलरि (?) तार्किकार्कोऽभूत् ॥ श्रीमान् समन्तभद्रस्वामीत्यथ सोऽप्यधीत्य तं द्विविधम् । सिद्धान्तमतः षट्रखण्डागमगतखण्डपञ्चकस्य पुनः ॥१६८॥ अष्टौ चत्वारिंशत्सहस्रसग्रन्थरचनया युक्ताम् ।। विरचितवानतिसुन्दरमृदुसंस्कृतभाषया टीकाम् ॥ १६९॥ विलिखन् द्वितीयसिद्धान्तस्य व्याख्या सधर्मणा स्वेन । द्रव्यादिशुद्धिकरणप्रयत्नविरहात्प्रतिनिषिद्धम् ॥ १७० ॥ एवं व्याख्यानक्रममवाप्तवान् परमगुरुपरम्परया। आगच्छन् सिद्धान्तो द्विविधोऽप्यतिनिशितबुद्धिभ्याम्१७१ शुभरविनन्दिमुनिभ्यां भीमरथिकृष्णमेखयोः सरितोः । मध्यमविषये रमणीयोत्कलिकायामसामीप्यम् ॥ १७२॥ विख्यातमगणवल्लीग्रामेऽथ विशेषरूपेण । श्रुत्वा तयोश्च पार्श्वे तमशेषं बप्पदेवगुरुः ॥ १७३ ॥ अपनीय महाबन्धं षट्खण्डाच्छेषपञ्चखण्डे तु । व्याख्याप्रज्ञाप्तिं च षष्ठं खण्डं च तत संक्षिप्य ॥ १७४ ॥ षण्णां खण्डानामिति निष्पन्नानां तथा कषायाख्य। प्राभृतकस्य च षष्ठिसहस्रग्रन्थप्रमाणयुताम् ॥ १७५ ॥ व्यालिखत्प्राकृतभाषारूपां सम्यक्पुरातनव्याख्याम् । अष्टसहस्रग्रन्थां व्याख्यां पञ्चाधिका महाबन्धे ॥ १७६ ॥ काले गते कियत्यपि ततः पुनश्चित्रकूटपुरवासी। श्रीमानेलाचार्यो बभूव सिद्धान्ततत्त्वज्ञः ॥ १७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org