________________
श्रुतावतारः
ALS
एवं गाथासूत्राणि पञ्चदशमहाधिकाराणि । प्रविरच्य व्याचख्यौ स नागहस्त्यार्यमंक्षुभ्याम् ॥ १५४ ॥ पार्श्वे तयोर्द्वयोरप्यधीत्य सूत्राणि तानि यतिवृषभः । यतिवृषभनामधेयो बभूव शास्त्रार्थनिपुणमतिः ॥ १५५ ॥ तेन ततो यतिपतिना तद्गाथावृत्तिसूत्ररूपेण । रचितानि षदसहस्रग्रन्थान्यथ चूर्णिसूत्राणि ॥ १५६ ॥ तस्यान्ते पुनरुच्चारणादिकाचार्यसंज्ञकेन ततः । सूत्राणि तानि सम्यगधीत्य ग्रन्थार्थरूपेण ॥ १५७॥ द्वादशगुणितसहस्रग्रन्थान्युच्चारणाख्यसूत्राणि । रचितानि वृत्तिरूपेण तेन तच्चूर्णिसूत्राणाम् ॥ १५८ ॥ गाथाचू[च्चारणसूत्रैरुपसंहृतं कषायाख्य ।। प्राभृतमेवं गुणधरयतिवृषभोच्चारणाचार्यैः ॥ १५९ ॥ एवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन् । गुरुपरिपाट्या ज्ञातः सिद्धान्तः कुण्डकुन्दपुरे ॥ १६० ।। श्रीपद्मनन्दिमुनिना सोऽपि द्वादशसहस्रपरिणामः। ग्रन्थपरिकर्मक; षटखण्डाद्यत्रिखण्डस्य ॥ १६१ ॥ काले ततः कियत्यपि गते पुनः शामकुण्डसंज्ञेन । आचार्येण ज्ञात्वा द्विभेदमप्यागमः कात्स्यात् ॥ १६२॥ द्वादशगुणितसहस्र ग्रन्थं सिद्धान्तयोरुभयोः । षष्ठेन विना खण्डेन पृथुमहाबन्धसंज्ञेन ॥ १६३ ॥ प्राकृतसंस्कृतकर्णाटभाषया पद्धतिः परा रचिता। तस्मादारात्पुनरपि काले गतवति कियत्यपि च ॥ १६४ ॥ अथ तुम्बुलूरनामाऽचार्योऽभूत्तुम्बुलूरसद्ग्रामे। षटेन विना खण्डेन सोऽपि सिद्धान्तयोरुभयोः ॥ १६५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org