________________
श्रुतावतारः
एवं षट्खण्डागमरचना प्रविधाय भूतबल्यार्यः । आरोप्यासद्भावस्थापनया पुस्तकेषु ततः ॥१४२ ॥ ज्येष्ठसितपक्षपञ्चम्यां चातुर्वर्ण्यसंघसमवेतः। तत्पुस्तकोपकरणैर्व्यधात् क्रियापूर्वकं पूजाम् ॥ १४३ ॥ श्रुतपञ्चमीति तेन प्रख्याति तिथिरियं परामाप । अद्यापि येन तस्यां श्रुतपूजां कुर्वते जैनाः ॥ १४४ ॥ जिनपालितं ततस्तं भूतबलिः पुष्पदन्त गुरुपार्श्वम् । षट्खण्डान्यप्यध्यगमयत्तत्पुस्तकसमेतम् ॥ १४५ ॥ अथ पुष्पदन्तगुरुरपि जिनपालितहस्तसंस्थितमुदीक्ष्य । षट्खण्डागमपुस्तकमहो मया चिंतितं कार्यम् ॥ १४६ ॥ सम्पन्नमिति समस्तांगोत्पन्नमहाश्रुतानुरागभरः । चातुर्वण्र्थसुसंघान्वितो विहितवान क्रियाकर्म ॥ १४७ ॥ गन्धाक्षतमाल्याम्बरवितानघण्टाध्वजादिभिः प्राग्वत् । श्रुतपञ्चम्यामकरोत्सिद्वान्तसुपुस्तकमहेज्याम् ॥ १४८॥ एवं षदखण्डागमसूत्रोत्पत्तिं प्ररूप्य पुनरधुना। कथयामि कषायप्राभृतस्य सत्सूत्रसम्भूतिम् ॥ १४९ ॥ ज्ञानप्रवादसंज्ञकपञ्चमपूर्वस्थदशमवस्तुतृतीय-। प्रायोदोषप्राभूतकज्ञोऽभूद् गुणधरमुनीन्द्रः ॥ १५०॥ गुणधरधरसेनान्वयगुर्वोः पूर्वापरक्रमोऽस्माभिः । न ज्ञायते तदन्वयकथकागममुनिजनाभावात् ॥ १५१ ॥ अथ गुणधरमुनिनाथः सकषायप्राभृतान्वयं तत्प्रायो-। दोषप्राभृतकापरसंज्ञां साम्प्रतिकशक्तिमपेक्ष्य ॥ १५२ ॥ त्र्यधिकाशीत्या युक्तं शतं च मूलसूत्रगाथानाम् । विवरणगाथानां च व्यधिकं पञ्चाशतमकार्षीत् ॥१५३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org