________________
श्रुतावतारः
प्रियहितवचनैरमुष्य तावुभावेव कुरीश्वरं प्रहितौ। तावपि नवभिर्दिवसैर्गत्वा तत्पत्तनमवाप्य ॥ १३० ॥ योगं प्रगृह्य तत्राषाढे मास्यसितपक्षपञ्चम्याम् । वर्षाकालं कृत्वा विहरन्तौ दक्षिणाभिमुखं ॥ १३१ ॥ जग्मतुरथ करहाटे तयोः स यः पुष्पदन्तनाममुनिः। जिनपालिताभिधानं दृष्ट्वाऽसौ भागिनेयं स्वम् ॥ १३२ ॥ दत्वा दीक्षां तस्मै तेन समं देशमेत्य वनवासम् । तस्थौ भूतबलिरपि मधुरायां द्रविडदेशेऽस्थात् ॥ १३३ ॥ अथ पुष्पदन्तमुनिरप्यध्यापयितुं स्वभागिनेयं तम् । कर्मप्राकृतिमाभृतमुपसंहार्येव षभिरिह खण्डैः ॥ १३४ ॥ वांच्छन् गुणजीवादिकविंशतिविधसूत्रसत्प्ररूपणया। युक्तं जीवस्थानाधधिकारं व्यरचयत्सम्यक् ॥ १३५ ।। सूत्राणि तानि शतमध्याप्य ततो भूतबालिगुरोः पार्श्वम् । तदभिप्रायं ज्ञातुं प्रस्थापयद्गमदेषोऽपि ॥ १३६ ॥ तेन ततः परिपठितां भूतबलिः सत्प्ररूपणां श्रुत्वा । षट्रखण्डागमरचनाभिप्रायं पुष्पदन्तगुरोः ॥१३७ ॥ विज्ञायाल्पायुष्यानल्पमतीन्मानवान् प्रतीत्य ततः। द्रव्यप्ररूपणाधधिकारः खण्डपश्चकस्यान्वकू ॥ १३८ । सूत्राणि षट्सहस्रग्रन्थान्यथ पूर्वसूत्रसहितानि । प्रविरच्य महाबन्धाह्वयं ततः षष्ठकं खण्डम् ॥ १३९ ॥ त्रिंशत्सहस्रसूत्रग्रन्थं व्यरचयदसौ महात्मा । तेषां पञ्चानामपि खण्डानां शृणुत नामानि ॥ १४० ॥ आद्यं जीवस्थानं क्षुल्लकबन्धाह्वयं द्वितीयमतः। . बन्धस्वामित्वं भाववेदनावर्गणाखण्डे ॥ १४१ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org