________________
श्रुतावतारः
दृष्ट्वा ताविति देव्यौ न देवतानां स्वभाव एष इति। प्रविचिन्त्य ततो विद्यामंत्रव्याकरणविधिनैव ॥ ११८ ।। प्रस्तार्य न्यूनाधिकवर्णक्षेपापचयविधानेन । पुनरपि पुरतश्च तयोर्दव्यौ ते दिव्यरूपेण ॥ ११९ ॥ केयूरहारनूपुरकटककटीसूत्रभासुरशरीरे। अग्रे स्थित्वा वदतां किं करणीयं प्रवदतेति ॥ १२०॥ तावप्यूचतुरेतन्नास्माकं कार्यमस्ति तत्किमपि । ऐहिकपारत्रिकयोर्भवतीभ्यां सिध्यति यत्र परम् ॥१२१ १५ किन्तु गुरुनियोगादावाभ्यां विहितमेतदिति वचनम् । श्रुत्वा तयोरभीष्टं ते जग्मतुः स्वास्पदं देव्यौ ॥ १२२॥ विद्यासाधनमेवं विधाय तोषात्ततो गुरोः पार्श्वम् । गत्वा तौ निजवृत्तान्तमवदतां तद्यथावृत्तम् ॥ १२३ ॥ सोऽप्यतियोग्याविति सश्चिन्त्य ततः सुप्रशस्ततिथिवेलानक्षत्रेषु तयोर्व्याख्यातुं प्रारब्धवान् ग्रन्थम् ॥ १२४॥ ताभ्यामप्यध्ययनं कुर्वाणाभ्यामपास्ततन्द्राभ्याम् । परममविलवयभ्यां गुरुविनयं ज्ञानविनयं च ॥ १२५॥ दिवसेषु कियत्स्वपि गतेष्वथाषाढमासि सितपक्षे। एकादश्यां च तिथौ ग्रन्थसमाप्तिः कृता विधिना ॥१२६॥ तद्दिन एवैकस्य द्विजपंक्तिं विषमितामपास्य सुरैः। कृत्वा कुन्दोपमितां नाम कृतं पुष्पदन्त इति ॥ १२७ ॥ अपरोऽपि तुर्यनादेर्जयघोषैर्गन्धमाल्यधूपायैः। भूतपतिरेष इत्याहूतो भूतैर्महं कृत्वा ॥ १२८ ॥ स्वासन्नमृति ज्ञात्वा मा भूत्संक्लेशमेतयोरस्मिन् । इति गुरुणा सञ्चिन्त्य द्वितीयदिवसे ततस्तेन ॥ १२९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org