________________
श्रुतावतारः
देशेन्द्रदेशनामनि वेणाकतटीपुरे महामहिमा। समुदितमुनीन् प्रति ब्रह्मचारिणा प्रापयल्लेखम् ॥ १०६ ॥ आदाय लेखपत्रं तेऽप्यथ तद्ब्रह्मचारिणो हस्तात् । प्रविमुच्य बन्धनं वाचयाम्बभूवुस्तदा महात्मानः ॥१०७॥ स्वस्ति श्रीमत इत्यूर्जयन्ततटनिकटचन्द्रगुहावासाद्धरसेनगणी वेणाकतटसमुदितयतीन् ॥ १०८ ॥ अभिवन्द्य कार्यमेवं निगदत्यस्माकमायुरवशिष्टम् । स्वल्पं तस्मादस्मच्छ्रुतस्य शास्त्रस्य व्युच्छित्तिः ॥ १०९॥ न स्याद्यथा तथा द्वौ यतीश्वरौ ग्रहणधारणसमर्थो । निशितप्रज्ञौ यूयं प्रस्थापयतेति लेखार्थम् ॥ ११० ॥ सम्यगवधार्य तैरपि तथाविधौ द्वौ मुनी समन्विष्य । प्रहितौ तावपि गत्वा चापतुररमूर्जयन्तगिरिम् ॥ १११ ॥ आगमनदिने च तयोः पुरैव धरसेनसूरिरपि रात्रौ । निजपादयोः पतन्तौ धवलवृषावक्षत स्वप्ने ॥ ११२ ॥ तत्स्वप्नेक्षणमात्राजयतु श्रीदेवतेति समुपलपन् । उदतिष्ठदतः प्रातः समागतावैक्षत मुनी द्वौ ॥ ११३ ॥ प्राधूर्णिकोचितविधि तयोर्विधायादरात्ततस्ताभ्याम् । विश्राम्य त्रीन्दिवसान् निवेदितागमनहेतुभ्याम् ॥ ११४ ॥ सुपरीक्षा हृन्निवर्तिकरीति सन्चिन्त्य दत्तवान् सूरिः । साधयितुं विद्ये द्वे हीनाधिकवर्णसंयुक्ते ॥ ११५॥ श्रीमन्नेमिजिनेश्वरसिद्धिशिलायां विधानतो विद्यासंसाधनं विदधतोस्तयोश्च पुरतः स्थिते देख्यौ ॥ ११६ ॥ हीनाक्षरविद्यासाधकस्य देव्येकलोचनाग्रेऽस्थात् । अधिकाक्षरविद्यासाधकस्य सा दन्तुरा तस्थौ ॥ ११७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org