________________
श्रुतावतारः
उक्तं च--
आयातौ नन्दिवरौि प्रकटगिरिगुहावासतोऽशोकवाटाद्देवाश्चान्योऽपरादिर्जित इति यतिपौ सेनभद्राह्वयौ च । पञ्चस्तूप्यात्सगुप्तौ गुणधरवृषभः शाल्मलीवृक्षमूलानिर्यातौ सिंहचन्द्रौ प्रथितगुणगणी केसरात्खण्डपूर्वात् ९६ अन्ये जगुर्गुहाया विनिर्गता 'नन्दिनो' महात्मानः । 'देवा'श्चाशोकवनात्पञ्चस्तूप्यास्ततः 'सेनः ॥ ९७ ॥ विपुलतरशाल्मलीदुममूलगतावासवासिनो 'वीराः'। 'भद्राश्च खण्डकेसरतरुमूलनिवासिनो जाताः ॥ ९८॥ गुहायां वासितो ज्येष्ठो द्वितीयोऽशोकवाटिकात् । निर्यातौ 'नन्दि''देवा'भिधानावाद्यावनुक्रमात् ॥ ९९॥ पञ्चस्तूप्यास्तु 'सेना'नां 'वीरा'णां शाल्मलीद्रुमः। खण्डकेसरनामा च 'भद्रः' 'सिंहो'ऽस्य सम्मतः॥ १०० ।। एवं तस्याहंबलेर्मुनिजनसङ्गप्रवर्तकस्यासन् । बिनययजना मुनीन्द्राः पञ्चकुलाचारतोपास्याः ॥१०१॥ तस्यानंतरमनगारपुङ्गवो माधनन्दिनामाऽभूत् । सोऽप्यङ्गपूर्वदेशं प्राकाश्य समाधिना दिवं यातः॥१०२॥ देशे ततः सुराष्ट्र गिरिनगरपुरान्तिकोर्जयन्तगिरौ। चंद्रगुहाविनिवासी महातपाः परममुनिमुख्यः ॥१०॥ अग्रायणीयपूर्वस्थितपंचमवस्तुगतचतुर्थमहा। कर्मप्राभृतकज्ञः सूरिधरसेननामाऽभूत् ॥ १०४ ॥ सोऽपि निजायुष्यान्तं विज्ञायास्माभिरलमधीतमिदम् । शास्त्रं व्युच्छेदमवाप्स्यतीति सञ्चिन्त्य निपुणमतिः०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org