SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रुतावतारः। विनयधरः श्रीदत्तः शिवदत्तोऽन्योऽर्हद्दत्तनामैते। आरातीया यतयस्ततोऽभवन्नापूर्वदेशधराः ॥ ८४ ॥ सर्वांगपूर्वदेशैकदेशवित्पूर्वदेशमध्यगते।। श्रीपुण्ड्रवर्धनपुरे मुनिरजनि ततोऽर्हद्वल्याख्यः ॥ ८५ ॥ सं च तत्प्रसारणाधारणाविशुद्धातिसक्रियोद्युक्तः। अष्टांगनिमित्तज्ञः संधानुग्रहनिग्रहसमर्थः ॥ ८६ ॥ आस्त संवत्सरपञ्चकावसाने युगप्रतिक्रमणम् । कुर्वन्योजनशतमात्रवर्तिमुनिजनसमाजस्य ॥ ८७ ॥ अथ सोन्यऽदा युगान्ते कुर्वन् भगवान्युगप्रतिक्रमणम् । मुनिजनवृन्दमपृच्छत्किं सर्वेऽप्यागता यतयः ॥ ८८॥ तेऽप्यूचुर्भगवन्वयमात्मात्मीयन सकलसंधेन । सममागतास्ततस्तद्वचः समाकर्ण्य सोऽपि गणी ॥ ८९ ।।। काले कलावमुष्मिन्नितः प्रभूत्यत्र जैनधर्मोऽयम् । गणपक्षपातभेदैः स्थास्यति नोदासभावेन ॥ ९० ॥ इति सश्चिन्त्य गुहायाः समागता ये यतीश्वरास्तेषु । काँश्चि'नंद्यभिधानान काँश्चि द्वीरा'यानकरोत् ॥ ९१ ॥ प्रथितादशोकवाटात्समागता ये मुनीश्वरास्तेषु । काँश्चि दपराजिता'ख्यान्काँश्चि'देवा'ह्वयानकरोत् ॥ ९२ ॥ पश्चस्तूप्यनिवासादुपागता येऽनगारिणस्तेषु । काँश्चित्सेना'भिख्यान्काँश्चिद्भद्राभिधानकरोत् ॥ ९३॥ ये शाल्मलीमहाद्रुममूलाद्यतयोऽभ्युपागतास्तेषु। काँश्चिद् 'गुणधर'संज्ञान्काँश्चिद्'गुप्ता'ह्वयानकरोत् ॥१४॥ ये खण्डकेसरद्रुममूलान्मुनयः समागतास्तेषु । काँश्चित्सिहा'भिख्यान्काँश्चि'चन्द्रा'हृयानकरोत् ॥ ९५॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy