________________
७८
श्रुतावतारः ।
तेऽपि ततस्तच्चेष्टितमीदृशमावेदयन् स्वकीयगुरोः । सोऽपि ततो द्विजमुख्यस्तमपूर्व छात्रमित्यवदत् ॥ ४८ ॥ शास्त्राणि करतलामलकायन्तेऽस्माकमिह समस्तानि । अपरेऽपि वादिनोऽस्माज्जायन्ते नष्टदुष्टमदाः ॥ ४९ ॥ तत्केन हेतुना तदूव्याख्यानं नैव रोचते तुभ्यम् । कथयेति ततस्तस्मै प्रतिवचनमुवाच सोऽपीत्यम् ॥ ५० ॥ यदि सर्वशास्त्रतत्त्वं जानन्ति भवन्त एव तदमुष्याः । आर्यायाः कथयन्त्वर्थमिति पठति तत्काव्यम् ॥ ५१ ॥ पद्रव्यनवपदार्थत्रिकालपञ्चास्तिकायषट्कायान् । विदुषां वरः स एव हि यो जानाति प्रमाणनयैः ॥ ५२ ॥ श्रुत्वा तेनेत्युदितामश्रुतपूर्वामतीव विषमार्थाम् । आर्यामिमां ततोऽस्याः सोऽर्थमजानन्निति तमूचे ॥ ५३ ॥ कस्य च्छात्रस्तावत्त्वं कथयेत्याह सोऽपि भट्टार्हत् । श्रीवर्धमानभट्टारकस्य जगतीगुरोइछात्रः ॥ ५४ ॥ सिद्धार्थनन्दनस्य छात्रस्त्वं चेन्महेन्द्रजालविदः । देवागमं जनस्य प्रतिदर्शयतो वियन्मार्गे ॥ ५५ ॥ तत्तेनैव विवाद सार्धं प्रकरोमि किं त्वया कार्यम् । त्वत्तो जयापजययोर्ममैव विद्वत्सु लघुता स्यात् ॥ ५६ ॥ एहि व्रजाव इत्यभिधाय पुरोधाय गौतमः शक्रम् । समवसृतिं भ्रातृभ्यामायाद्वायुवन्हिभूतिभ्याम् ॥ ५७ ॥ दृष्ट्वा मानस्तम्भं विगलितमानोदयो द्विजन्माऽऽसीत् । भातृभ्यां सह जिनपतिमवलोक्य परीत्य तं भक्त्या ॥ ५८ ॥ त्वा त्वा त्यक्त्वाऽशेषपरिग्रहमना ग्रहो दीक्षाम् । आदायाग्रिमगणभृद्बभूव सप्तर्द्धिसम्पन्नः ॥ ५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org