________________
श्रुतावतारः।
अथ भगवान किंजीवोस्ति नास्ति वाकिंगुणः कियान्कीदृक इत्यादिषडयुतप्रमितं तद्गणेटप्रश्नपर्यन्ते ॥ ६० ॥ जीवोऽस्त्यनादिनिधनः शुभाशुभविभेदकर्मणां कर्ता । सदसत्कर्मफलानां भोक्ता स्वोपात्ततनुमात्रः ॥ ६१ ॥ उपसंहरणविर्सपणधर्मज्ञानादिभिर्गुणैर्युक्तः। ध्रौव्योत्पत्तिव्ययलक्षणः स्वसंवेदनग्राह्यः ॥ ६२ ॥ नोकर्मकर्मपुद्गलमनादिरूपात्तकर्मसम्बन्धात् । गृह्णन् मुश्चन् भ्राम्यन् भवे भवे तत्क्षयान्मुक्तः ॥६३॥ इत्याद्यनेकभेदैस्तथा स जीवादिवस्तुसद्भावम् । दिव्यध्वनिना स्फुटमिन्द्रभूतये सन्मतिरवोचत् ॥६४ ॥ श्रावणबहुलप्रतिपादितेऽर्के रौद्रनामनि मुहूर्त । अभिजिद्गते शशांके तीर्थोत्पत्तिर्बभूव गुरोः ॥६५॥ तेनेन्द्रभूतिगणिना तद्दिव्यवचोऽवबुध्ध तत्त्वेन । ग्रन्थोऽङ्गपूर्वनाम्ना प्रतिरचितो युगपदपराह्ने ॥ ६६ ॥ प्रतिपादितं ततस्तत् श्रुतं समस्तं महात्मना तेन । प्रथितात्मीयसधर्मणे सुधर्माभिधानाय ॥ ६७ ॥ सोऽपि प्रतिपादितवान जम्बूनाम्ने सधर्मणे स्वस्य । तेभ्यस्ततो गणिभ्योऽन्यैरपि तदर्धातं मुनिवृषभैः ॥ ६८ ॥ सन्मतिजिनस्ततोऽसावासन्नविमुक्तिभव्यसस्यानाम् । परमानन्दं जनयन धर्मामृतवृष्टिसेकेन ॥ ६९ ॥ त्रिंशतमिह वर्षाणां विहृत्य बहुजनपदान जगत्पूज्यः। सरसिजवनपरिकलिते पावापुरबहिरुघाने ॥ ७० ॥ वत्सरचतुष्टयेऽत्रिमासहीने चतुर्थकालस्य । शेषे कार्तिककृष्णचतुर्दश्यां निर्वृतिमवाप ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org